This page has not been fully proofread.

विष्णुपादादि
 
रेखा लेखादिवन्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः
स्निग्धाः सूक्ष्मा: सुजाता
 
मृदुललिततरक्षौमसूत्रायमाणाः।
 
दयुर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः
कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥
 
४२
 
रेखाः वलयः । लेखादिवन्द्या: देवैरुपास्या: । 'आदिते-
या दिविषदो लेखा अदितिनन्दनाः' इत्यमरः । चरणतल-
गताः पादोदरवर्तिन्यः । चक्रमत्स्यादिरूपाः चक्रं रथाङ्गं
मत्स्यो मीनः आदिशब्दात् सृणिकुलिशदण्डकोदण्डपुण्डरी-
कादिग्रहणम्; तत्संनिवेशविशिष्टाः तेषां महापुरुषलक्षण-
त्वात् ; 'दण्डाङ्कुशौ चक्रचापौ श्रीवत्सं कुलिशं तथा ।
मत्स्यश्चैतानि चिह्नानि कल्प्यन्ते चक्रवर्तिनाम्' इति सामु
द्रोक्तेः । स्निग्धाः अरूक्षवर्णाः । सूक्ष्माः तनुतराः ।
मुजाता: सौष्ठवात् व्यक्ताः । मृदुललिततरक्षौमसूत्रायमाणाः
मुकुमारसुन्दरतराणि क्षौमसूत्राणि त्रसरतन्तव इवाचरन्तः;
तत्तुल्या इत्यर्थः । ' कर्तु: क्यङ् सलोपश्च' इति क्यङ् ।
दद्यु: दिशेयुः । मङ्गलानि द्वयोरपि लोकयोः श्रेयांसीति द्यो-
नयति । भ्रमरमरजुषा आरुण्यसौरभ्यसैौकुमार्यरूपसाभ्यादियो-
गात् तत्कालविकसितारुणतामरससंभ्रमनिलीनमधुकरकुलं से-
वन इति भ्रमर भरजुट 'जुली प्रीतिसेवनयोः' इत्यस्मात् क्रिप् ।