This page has been fully proofread once and needs a second look.

विष्णुपादादि
 
रेखा लेखादिवन्द्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः

स्निग्धाः सूक्ष्मा: सुजाता
 
मृदुललिततरक्षौमसूत्रायमाणाः।
 

दद्
युर्नो मङ्गलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः

कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥
 
४२
 

 
रेखाः वलयः । लेखादिवन्द्या: देवैरुपास्या: । 'आदिते-

या दिविषदो लेखा अदितिनन्दनाः' इत्यमरः । चरणतल-

गताः पादोदरवर्तिन्यः । चक्रमत्स्यादिरूपाः चक्रं रथाङ्गं

मत्स्यो मीनः आदिशब्दात् सृणिकुलिशदण्डकोदण्डपुण्डरी-

कादिग्रहणम् ; तत्संनिवेशविशिष्टाः, तेषां महापुरुषलक्षण-

त्वात् ; 'दण्डाङ्कुशौ चक्रचापौ श्रीवत्सं कुलिशं तथा ।

मत्स्यश्चैतानि चिह्नानि कल्प्यन्ते चक्रवर्तिनाम्' इति सामु
-
द्रोक्तेः । स्निग्धाः अरूक्षवर्णाः । सूक्ष्माः तनुतराः ।
मु

सु
जाता: सौष्ठवात् व्यक्ताः । मृदुललिततरक्षौमसूत्रायमाणाः
मु

सु
कुमारसुन्दरतराणि क्षौमसूत्राणि त्रसरतन्तव इवाचरन्तः;

तत्तुल्या इत्यर्थः । ' कर्तु: क्यङ् सलोपश्च' इति क्यङ् ।

दद्यु: दिशेयुः । मङ्गलानि द्वयोरपि लोकयोः श्रेयांसीति द्यो-

यति । भ्रमरमरजुषा आरुण्यसौरभ्यसैौसौकुमार्यरूपसाभ्म्यादियो-

गात् तत्कालविकसितारुणतामरससंभ्रमनिलीनमधुकरकुलं से-
वन

वत
इति भ्रमर भरजुट 'जुलीषी प्रीतिसेवनयोः' इत्यस्मात् क्रिप् ।