2023-05-01 09:05:53 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
केशान्तस्तोत्रम् ।
३
RW
समग्रदुरितकुलजालप्लोषजातवेदसि तापत्रयतरणिकिरणतप्तसं-सरणमरुधरणिसरणिसंचरणविधुरजनपरिश्रमहरणसुरविटपिनि
विग्रहरत्ने मनः स्थिरीकरणात्मकत्वात् मनसश्च तरलतरस्वभा-
वस्य परमेश्वरविग्रहः एवंप्रकारविशिष्टतया अनुसंधेय इति
प्रदर्शित मधुरप्रकारे तस्मिंस्तदितरविषयप्रत्याहृतस्य बाह्येन्द्रि-
यसहितस्य 'अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते '
इति भगवद्वचनात् अभ्यासेन विषयान्तरविरक्त्या च
स्थिरीकार्यत्वात् भुक्तिमुक्त्यभिलाषुकसुकृतिजनानुग्रहपरमकरु-
णापराधीनचेताः परमेश्वरावतारभेदभूतो भगवान् श्रीम-
च्छारीरकमीमांसाभाष्यकार: तद्विग्रहप्रकाशनाय भगवतः पु
रुषोत्तमस्य पादादिकेशान्तविग्रहवर्णनरूपं स्तोत्रमारभमाणः
तद्वारा सकलवेदधर्मशास्त्रपुराणेतिहासमीमांसान्यायाद्यर्थां श्च
प्रसङ्गतो व्युत्पिपादयिषुः प्रारिप्सितग्रन्थस्य अविघ्नपरिसमा-
त्यादिप्रयोजनसिद्धये निखिलदनुजनिशिचरकुलमुखदुरितभ-
रनिरसनेन भुवनपालनजागरूकाणामचिन्त्यमहिम्नां भगवतो
दिव्यायुधानामन्येषां च तदन्तरङ्गभूतानां परिवारविशेषाणां
स्तुत्या प्रथमतः प्रसादोन्मुखत्वमापादयति, तत्प्रसादमन्त-
रेण निरन्तरनिराकुलेन मनसा भगवद्विग्रहस्य प्रवेष्टुमशक्य-
त्वात् । न खलु प्रतिहारादिपरिवारावर्जनमन्तरेण नरपतिसे-
श्रायाः सौकर्यम् । तत्रापि 'भूतादिमिन्द्रियादिं च द्विधा-