This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

 

 

 
RW
 

 
समग्रदुरितकुलजालप्लोषजातवेदसि तापत्रयतरणिकिरणतप्तसं-
6
 
सरणमरुधरणिसरणिसंचरणविधुरजनपरिश्रमहरणसुरविटपिनि

विग्रहरलेत्ने मनः स्थिरीकरणात्मकत्वात् मनसश्च तरलतरस्वभा-

वस्य परमेश्वरविग्रहः एवंप्रकारविशिष्टतया अनुसंधेय इति

प्रदर्शित मधुरप्रकारे तस्मिंस्तदितरविषय प्रत्याहृतस्य बाह्येन्द्रि-

यसहितस्य 'अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते '

इति भगवद्वचनात् अभ्यासेन विषयान्तरविरक्त्या च

स्थिरीकार्यत्वात् भुक्तिमुक्त्यभिलाषुकसुकृतिजनानुग्रहपरमकरु-

णापराधीनचेताः परमेश्वरावतारभेदभूतो भगवान् श्रीम-

च्छारीरकमीमांसाभाष्यकार: तद्विग्रहप्रकाशनाय भगवतः पु

रुषोत्तमस्य पादादिकेशान्तविग्रहवर्णनरूपं स्तोत्रमारभमाणः

तद्वारा सकलवेदधर्मशास्त्रपुराणेतिहासमीमांसान्यायाद्यर्थोथां श्च

प्रसङ्गतो व्युत्पिपादयिषुः प्रारिप्सितग्रन्थस्य अविघ्नपरिसमा-

त्यादिप्रयोजनसिद्धये निखिलदनुजनिशिचरकुलमुखदुरितभ-

रनिरसनेन भुवनपालनजागरूकाणामचिन्त्यमहिम्नां भगवतो

दिव्यायुधानामन्येषां च तदन्तरङ्गभूतानां परिवारविशेषाणां

स्तुत्या प्रथमतः प्रसादोन्मुखत्वमापादयति, तत्प्रसादमन्त-

रेण निरन्तरनिराकुलेन मनसा भगवद्विग्रहस्य प्रवेष्टुमशक्य-

त्वात् । न खलु प्रतिहारादिपरिवारावर्जन
मन्तरेण नरपतिसे-

श्रायाः सौकर्यम् । तत्रापि 'भूतादिमिन्द्रियादिं च द्विधा-