This page has not been fully proofread.

विष्णुपादादि-
म्वितस्थूल रूपस्येत्यनेन प्राणनाथत्वोपपत्तिः । विपुलगुणम-
थीम्, विस्तीर्णै: रूपशीलादिभिः प्रचुराम् । प्राचुर्याथें
मयट् । अथवा विपुला अनुजातत्वादसंकुचिता गुणाः सत्त्वा-
दय एव रूपं यस्यास्ताम् । सत्त्वरजस्तमसां साम्यावस्था प्रकृ
तिरिति लक्षणात् । 'दैवी ह्येषा गुणमयी मम माया दुरत्यया
इति भगवद्वचनाच । स्वसंबन्धिनां गन्धानामनुबन्धिभिश्च
शब्दादिभिः पञ्चगुणामित्यपि स्फुरति । प्राणनाथाम्, प्राणा-
नामीश्वरीम् । स्थितिकर्तुर्भगवतो जगद्धारणेन परमसाहाय्य
करणात् सर्वथा हृदयानुवृत्तेश्च परमप्रेमास्पदभूतामित्यर्थः ।
प्रणोमि प्रकर्षण स्तौमि । प्रकर्षश्च कायमनसोः प्रीभावः ।
अततॊ वाङ्मनःकायैरुपासे इत्यर्थ: सिध्यति । 'गु स्तुतौ ' इति
धातुः । अत्र च कदाचित् पायान्न इति कदाचित् वन्दे
इति कदाचित् प्रणौमीत्यादि क्रियाविशेषप्रयोगः भक्तिरसा-
बेगेन भगवदनुसंधाने परमहृदयस्य प्रयोक्तु: संभ्रमवशा-
दिति मन्तव्यः । एवंविधे च स्थले प्रक्रमभेद: प्रत्युत
सहृदयचमत्कारकारीति गुण एव । 'शास्त्राणां विषयस्ता-
बद्यावन्मन्दरसा नराः । रतिचक्रे प्रवृत्ते तु नैव शास्त्रं न
च क्रम: ' इति वात्स्यायनोक्तत्वात् । अत्र परिकरोऽलं-
कारः, विशेषणानां साभिप्रायत्वात् ॥ ९ ॥
 
इत्थं शङ्खराजादिकं भूमिदेव्यवसानमन्तरङ्गं परमेश्वरस्थ
 
३८