This page has been fully proofread once and needs a second look.

विष्णुपादादि-

रिति' इति तन्मूलमहाकविवचनाच्च । धत्ते आधारशक्तिरूपे-
भा

णा
पतनाय धारयतीत्यर्थः । तत्त्वयोगात् महदादिपृथिव्यन्तानि

त्रयोविंशतितत्त्वान्यनुप्रविश्येत्यर्थः, कारणस्य कार्येष्वनुवृत्तेः ।

अथवा तत्त्वस्य परमार्थभूतस्य परमेश्वर॑स्य योगात् अनुप्र-

वेशात् । 'गामाविश्य च भूतानि धारयाम्यहमोजसा' इति

भगवद्वचनाच्च । अथवा पुंस इति प्रस्तुतत्वात् तच्छब्देने-

श्वरः परामृश्यते । तस्य भावस्तत्वं तस्य योगात् संबन्धात्

भगवद भिन्नत्वादित्यर्थः
1
'नित्यैवैषा जगन्माता विष्णोः

श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम
'
इति श्रीविष्णुपुराणवचनात् । 'यथा शिवस्तथा देवी यथा

देवी तथा शिवः । नानयोरन्तरं विद्याञ्च्चन्द्रचन्द्रिक योरिव '

इति श्रीवायत्रीवीये, 'अनन्या राघवेणाहं भास्करेण प्रभा

यथा' इति श्रीरामायणे चोक्ते: । चरं जङ्गमं मनुष्यादिकम् ।

अचरं स्थावरं वृक्षादिकम् । इदमिति पूर्वं स्मृतत्वेनोक्तम् ।

अथवा प्रत्यक्षगोचरस्याभिनय: । भूतये पुरुषस्य भोगमो-

क्ष
स्वरूपायै संपदे, 'वत्सवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्ति-

रज्ञस्य पुरुषस्य कार्यहेतोः प्रवर्तते तद्वदव्यक्तम्' इति सां-

ख्योक्तेः । सृष्टस्य स्थितये या सूते धत्ते इत्युभयत्रापि हेतुत्वेन

संबध्यते । भूतजातं द्रव्यसमूहं भूतशब्दस्य प्राण्यप्राणिसाधार-

णत्वात् 'भूतानां प्राणिनः श्रेष्ठाः ' इति वचनात् । धात्रीं धारणे
 
३६