This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
अयस्कान्तसंनिधौ यथा चायश्चेष्टते, एवमेष पदार्थस्वाभा-
ब्यात् एतत्संनिधौ प्रकृतिः सृष्टयादिभिश्चेष्ठते इत्यर्थः ।
लोके पितरमन्तरेण मातु: प्रसवशक्त्यदर्शनात्, 'मम
योनिर्महद्ब्रह्म तस्मिन्गर्भ दधाम्यहम् । संभवः सर्व-
भूतानां ततो भवति भारत । सर्वयोनिषु कौन्तेय मूर्तयः
संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता :
इति भगवद्वचनात् । अत्र ब्रह्मशब्देन प्रकृतिरुच्यते, भूमेश्व
प्रकृतिरूपत्वात्, 'क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् '
इति मनुवचनाच्च । ननु पञ्चीकरणाख्यसंयोगविशेषविशि-
ठानां पञ्चानामपि भूतानां कार्य प्रति कारणत्वसाम्येऽपि कथं
'या सूते' इति भूमेः प्रसवं प्रति प्रधानकारणत्वमुच्यते ?
'पञ्चभूतात्मकैर्भावैः पञ्चभूतात्मकं बपुः । आप्याय्यते यदि
ततः पुंसो भोगोऽत्र किंकृत: ' इत्याद्यातवचनात् । उष्य-
ते – अमूर्तस्याकाशस्य तावदवकाशदानेनैव परिचितत्वात्,
पवनदहनसलिलानां तु प्रेरणाकरणमाखोपयुक्तत्वात् पृथि-
व्या एवोपादानत्वं काठिन्यगुणयोगात् धारशक्तिश्च तस्या
एवेति सैव प्रधानमिति वैद्यकादिषु स्थापितत्वात् ।
अत्र च मूलप्रकृतिरूपत्वेन देवतायाः स्तुतौ तात्पर्यान
कचिद्विरोधः । 'इयं हि भूमिर्भूतानां शाश्वती योनिरुच्यते
इति मनुवचनं च अत्र प्रमाणम् । 'यामाहुः सर्वभूतप्रकृति
 
३५
 
9