This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
अयस्कान्तसंनिधौ यथा चायश्चेष्टते, एवमेष पदार्थस्वाभा-
ब्

व्
यात् एतत्संनिधौ प्रकृतिः सृष्ट्यादिभिश्चेष्ते इत्यर्थः ।

लोके पितरमन्तरेण मातु: प्रसवशक्त्यदर्शनात्, 'मम

योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् । संभवः सर्व-

भूतानां ततो भवति भारत । सर्वयोनिषु कौन्तेय मूर्तयः

संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता :
'
इति भगवद्वचनात् । अत्र ब्रह्मशब्देन प्रकृतिरुच्यते, भूमेश्

प्रकृतिरूपत्वात्, 'क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् '

इति मनुवचनाच्च । ननु पञ्चीकरणाख्यसंयोगविशेषविशि-
ठा

ष्टा
नां पञ्चानामपि भूतानां कार्यं प्रति कारणत्वसाम्येऽपि कथं

'या सूते' इति भूमेः प्रसवं प्रति प्रधानकारणत्वमुच्यते ?

'पञ्चभूतात्मकैर्भावैः पञ्चभूतात्मकं पुः । आप्याय्यते यदि

ततः पुंसो भोगोऽत्र किंकृत: ' इत्याद्याप्तवचनात् । उष्च्य-

ते – अमूर्तस्याकाशस्य तावदवकाशदानेनैव परिचितत्वात्,

पवनदहनसलिलानां तु प्रेरणार्द्रीकरणमाखोत्रोपयुक्तत्वात् पृथि-

व्या एवोपादानत्वं काठिन्यगुणयोगात् धारशक्तिश्च तस्या

एवेति सैव प्रधानमिति वैद्यकादिषु स्थापितत्वात् ।

अत्र च मूलप्रकृतिरूपत्वेन देवतायाः स्तुतौ तात्पर्या
न्न
कचिद्विरोधः । 'इयं हि भूमिर्भूतानां शाश्वती योनिरुच्यते
'
इति मनुवचनं च अत्र प्रमाणम् । 'यामाहुः सर्वभूतप्रकृति
 
३५
 
9