2023-02-16 09:31:30 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादि-
चतुर्थ प्रस्तुतप्रशंसा च अलंकारः अनुप्रासस्तु सर्वत्रानु-
घर्तत इति तत्र तत्र नोद्भाव्यते ॥ ८ ॥
३४
'अथ काठिन्यवान्यो बिभर्ति जगदशेषत: । शब्दादि-
संभयो व्यापी तस्मै भूम्यात्मने नमः इत्यादिवचनात्
भगवत एव धारशक्तिरूपां भगवतीं भूतधान प्रतिष्ठासौख्य-
लाभायोपास्ते--
या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो
धत्ते या तत्त्वयोगाचरमचरमिदं भूतये भूतजातम् ।
धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं
विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥
सत्त्वानां द्रव्याणां समूहम् । 'सत्त्वोऽस्त्री जन्तुषु कीबे
व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्व-
भावयोः । प्राणे बलेऽन्तःकरणे' इति वैजयन्ती । सकलं
शरीरादिरूपं घटादिरूपं च । अपिव्र्व्यामौ । सदा सूते प्रवाह-
रूपेण नित्यं जनयति । तत्र हेतुः पुंसः पुरुषस्य नारायणस्य
संनिधानेन व्यासत्वात् संनिधिः सत्तामात्रेणेति निर्विकारत्व-
मीश्वरस्योक्तम् । जलदसंनिधौ यथा बलाका गर्भ धन्ते,