This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
.
 
यत्तत्सौन्दर्यमिति स्मृतम्' इति भावप्रकाशः । अङ्गग्रहणं

प्रत्यङ्गोपलक्षणार्थम्, 'अङ्गं शिरः कटी वक्षः कुक्षिः

पादावितीरितम् । जङ्घा घोरुबाहुप्ग्रीवादि प्रत्यङ्गमिति कथ्यते ।

उपाङ्गं नासिकानेत्र भ्रूकपोलाधरादिकम्' इति वचनात् ।

सुन्दराङ्गीमित्यनेन परब्रह्मरूपस्य भगवत इव तच्छक्तिरूपाया

देव्या अपि भक्तिज्ञानध्यानपूजनाद्यर्थं लीला गृहीतविग्रहत्वं

प्रकाश्यते । अशेषै.: सर्वैः; अपिरभिव्यौयाप्तौ । वन्द्याम् उपासयितुं

योग्याम् ; सर्वेषामपि सुखार्थित्वात् सुखस्य परदेवताप्रसादमन्त-

रेणाभावात् इति भावः । मुरभिदुरोमन्दिरां मुराख्य मसुरं विदा-

रितवानिति भगवान्, तस्य उरः वक्षःस्थलं मन्दिरं नियतं नि-

वासगृहं यस्याः । 'दक्षिणस्तनाद्धर्म: ' इति श्रीभागवतवचना-
तू

त्
; धर्मोपत्तिस्थानतया भगवदुरसः, श्रियश्च धर्मेणैव रक्षणीय-

त्वादिति भावः । मुरभिदुरोमन्दिरा मित्यनेनैतदप्याह यच्छक्ति-

मत्परतन्त्रत्वाच्छक्ते र्भर्तृवशवर्तिनीत्वाच्च धर्मपत्न्याः उभयथापि

भगवत्प्रभासाद एव देव्युपासकानामपि फलप्रद इति, 'तेषां हि

प्रार्थितं सर्वे मत्प्रसादाद्भविष्यति' इति विष्णुपुराणवचनात् ।

इन्दिरां लक्ष्मीम् । 'इदि परमैश्वर्ये' इत्यस्मादौणादिक इर-

प्रत्ययः । परमैश्वर्यस्वभावेति गौणी संज्ञा । ' इन्दिरा लोकमाता

मा क्षीरोदतनया रमा?' इत्यमरः । अत्र प्रथमे पांपादे सूक्ष्मं
म्

स्
वभावकिवोक्तिश्, द्वितीये अतिशयोक्तिः, तृतीये उपमा रूपके,
 
A
 
3
 
३३