This page has not been fully proofread.

विष्णुपादादि-
1
 
शीतलैरित्यनेन प्रत्युपकारनिरपेक्षं स्वत एव भक्तानुग्रहप-
रत्वं व्यज्यते । कटाक्षैः नेत्राञ्चलैः । 'अपाङ्गे तारविक्षेपः
कटाक्ष इति कथ्यते' इति भावप्रकाशः । सकृत् एकवा-
65
रम् । अपिशब्दो विरोधद्योतकः । लोके सकृत्पतितानां
जलदधारादीनां बीजाङ्कुरादि निष्पादनशक्त्यदर्शनादेतेषां त्व-
नुपमेयोऽचिन्त्यः प्रभाव इति भावः । पतितैः शरीरलयैः ।
संपदः समृद्धयः । बहुवचनेन तासां बाहुविध्यमाह ।
कुलीनत्वादीनां तत्त्वज्ञानपर्यन्तानां संपत्त्वात् 'स श्लाघ्य:
स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स
च विक्रान्तो यं त्वं देवि निरीक्षसे' इत्यादिवचनैः । सम-
ग्राः, प्रत्येकं निरवधिकाः एकत्र समुदिताश्च । स्युः भवेयु-
रिति संभावनायां लिङ् । तत्र नानुपपत्तिरित्यर्थः । कुन्देन्दु-
स्वच्छमन्दस्मितमधुरमुखाम्भोरुहां कुन्दपुष्पवत् धावल्यात् इ-
दुवत् प्रभाबाहुल्यात् स्वच्छेन निर्मलेन दशनप्रभाणां प्रसरात्
मन्देन उत्तमाङ्गनास्वाभाव्यादनुद्धतेन स्मितेन हासेन स्मिञ्
ईषद्धसने इति धात्वर्थत्वेऽप्यत्यधिक इति प्रयोगवत्, मधुरम्
अविकृतं सदा प्रसन्नमित्यर्थः, 'अनुल्बणत्वं माधुर्यम्' इति
वचनात् । मुखमेवाम्भोरुहं तामरसं यस्याः, सौकुमार्यसौर-
भ्यादिगुणयोगात् । सुन्दराङ्गी सुन्दराणि अङ्गानि यस्याः ।
'अन्यूनानतिरिक्तं यदङ्गप्रत्यङ्गसौष्ठवम् । सुश्लिष्टसन्धिबन्धं
 
३२