This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
बा
वाग्भूगौर्यादिभेदै र्विदुरिह मुनयो यां यदीयैश्च पुंसां

कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः ।

कुन्देन्दुस्वच्छमन्दस्मितमधुरमुखाम्भोरुहां सुन्दराङ्गीं

वन्दे वन्द्यामशेषैरपि मुरभिदुरोमन्दिरामिन्दिरां ताम् ॥
 
वाकू

 
वाक्
शब्दब्रह्मात्मिका सरस्वती । भूः सर्वभूतप्रकृतिः

पृथ्वी । गौरी परशक्तिरूपा पार्वती । आदिशब्दात् रतितु-

ष्टिपुष्टिकान्तिस्वाहास्वधादिसंग्रहः । एवंप्रकारनानात्वविशि-

ष्टतया मुनयः महर्षयः विदुः जानन्ति । 'अर्थो विष्णुरियं

वाणी श्रीर्भूमिर्भूधरो हरिः । शंकरो भगवाञ्छौरिर्गौरी लक्ष्मी-

र्
द्विजोत्तम । देवतिर्यङ्मनुष्येषु पुंनामा भगवान्हरिः । स्त्री-

नाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ' इत्यादिपुराणवच-

नात् '
परास्य शक्तिर्विविधैव श्रूयते ' इत्यादिश्रुतेश्च । तथा
 
;
 
:
 
नातू,
 
-
च अम्बास्तवे – 'दाक्षायणीति कुटिलेति कुहारिणीति का-
त्र

त्यायनीति कमलेति कलावतीति । एका सती भगवती पर
-
मार्थतोऽपि संदृश्य से बहुविधा ननु नर्तकीव ' इति । यदीयैः

यस्याः संबन्धिभिः 'त्यदादीनि च ' इति वृद्धसंज्ञा ।
' बृ

' वृ
द्धाच्छः ' इति छः । चकार: पूर्ववाक्यार्थसमुच्चये ।

पु
सां पुरुषाणामित्यर्थान्तरसंक्रमितवाच्येन ध्वनिना पुराकृत
गृ

सुकृ
तशालित्वभक्तिमत्वादिकं ग्रोद्योत्यते । कारुण्याःयार्द्रै:, कृपया
 
३१