This page has been fully proofread once and needs a second look.

३०
 
विष्णुपादादि-

भस्य कर्मणः साक्षादीक्षिता; अनिरुद्धहकूदृक्, स्वरूपेण सदा

जागरूकत्वात् 'यः सर्वज्ञः सर्ववित् ' ' साक्षी चेता केवलो नि-

र्गुणः' इत्यादिश्रुतिवचनैः । सकलविषभयात्, विपूर्वात् षो-

ऽन्तकर्मणीत्यस्मात् कप्रत्यये विषशब्दसिद्धिः । अतो विशेषेण

न्तीति विषम् – कालकूटादि ; ततो यद्भयमुद्वेगः तस्मात्

निमित्तात् पातु रक्षतु इति ऐहिकफलप्रार्थना । 'भीत्रार्थानां

भयहेतु : ' इति पञ्चमी । सकलग्रहणात् कालकूटादिभ्यो-

ऽपि क्रूरात् संसारविषभयात् पात्विति परलोकसुखप्रार्थना ।

मुक्तिं ददात्वित्यर्थः । तत्र हेतुः भोगीश्वर इति । भो-

गिनां नागानां स्वामी । अतस्तक्षकादिभ्यो भयं न संभ-

वति । तेषां तदधीनवृत्तित्वात् । भोगी परमसुखानुभवपर:

पालनैकशीलो वा ईश्वर: परब्रह्मरूपश्च । अतः संसारभय
-
मपि नाशयितुं शक्त इत्यर्थः । भोग: सर्पाणां शरीरं फणा वा,

तद्वन्तो भोगिनः, सौख्यविशिष्टाश्च । 'भोगो रा ये गृहे सौख्ये

पालनाभ्यवहारयोः । फणे देहे च सर्पस्य ' इति वैजयन्ती ।

अत्र परिकरोऽलंकारः ॥ ७ ॥
 

 
इत्थं भगवन्तमनन्तमुपास्य इदानीं सकलपुरुषार्थकल्प-

वल्लीं जगन्मातरं महामायारूपां भगवतीं मङ्गलदेवतामुपास्ते-