2023-05-07 13:05:35 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
सर्वीभूतः इति, अभूततद्भावाभावात् । सदात्मन्यसतः प्रप-
ञ्चस्य अध्यस्तत्वात् सत एव शिष्यमाणत्वम्, शुक्तिशकलस्ये-
वेति ध्वन्यते । 'ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूर्तिर्ननु
वस्तुभूत: । अतो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानवि-
जृम्भितानि' इति वचनात् । पृथुविमलयशा: लोकविस्तीर्णं
सकललोकवलक्षभूतं च यशः कीर्तिर्यस्य सः ; पृथुतरयशसेति
वा पाठ: । इत्थंभूतलक्षणे तृतीया । सर्ववेदैः चतुर्भिरागमैः
'सहस्रशीर्षा पुरुष: ' इत्यादिवचनैः वेद्यः । अन्यैः प्रमाणैरवे-
द्यस्वरूप इत्यर्थः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति
श्रुतेः । 'वेदैश्च सर्वैरहमेव वेद्यः' इति भगवद्वचनाच्च ।
विश्वस्य लोकस्य शश्वत् सदा पाता रक्षिता । रक्षित्रन्तराभा-
वात् शश्वद्ग्रहणम् । तत्र हेतुः सकलसुररिपुध्वंसनः, समस्ता-
नामसुराणां प्रलम्बचाणूरमुष्टिकधेनुकादीनां नाशनः, कर्तरि
ल्युट् । अथवा 'फणामणिसहस्रेण यः स विद्योतयन् दिशः ।
सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान्' इत्युक्तप्र-
कारविशिष्टः । पापहन्ता, कीर्तनश्रवणादिना पातकान्निवर्तकः ।
'अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते
सद्यः सिंहत्रस्तैर्मृगैरिव' इत्यादिपुराणवचनात् । सर्वज्ञः सर्वं
जानातीति 'इगुपधज्ञाप्रीकिर: क: ' इति कः । पतञ्जल्यादि-
रूपेण जगति ज्ञानप्रतिष्ठापनात् । सर्वसाक्षी,सर्वस्य शुभाशु-