This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
;
 

सर्वीभूतः इति, अभूततद्भावाभावात् । सदात्मन्यसतः प्रप-

ञ्च
स्य अध्यस्तत्वात् सत एव शिष्यमाणत्वम्, शुक्तिशकलस्ये-

वेति ध्वन्यते । 'ज्ञानस्वरूपो भगवान् यतोऽसावशेषमूर्तिर्ननु

वस्तुभूत: । अतो हि शैलाब्धिधरादिभेदाञ्जानीहि विज्ञानवि-

जृम्भितानि' इति वचनात् । पृथुविमलयशा: लोकविस्तीर्
णं
सकललोकवलक्षभूतं च यशः कीर्तिर्यस्य सः ; पृथुतरयशसेति

वा पाठ: । इत्थंभूतलक्षणे तृतीया । सर्ववेदैः चतुर्भिरागमैः

'
सहस्रशीर्षा पुरुष: ' इत्यादिवचनैः वेद्यः । अन्यैः प्रमाणैरवे-

द्यस्वरूप इत्यर्थः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' इति

श्रुतेः । 'वेदैश्च सर्वैरहमेव वेद्यः' इति भगवद्वचनाच्च ।

विश्वस्य लोकस्य शश्वत् सदा पाता रक्षिता । रक्षित्रन्तराभा-

वात् शश्वद्ग्रहणम् । तत्र हेतुः सकलसुररिपुध्वंसनः, समस्ता-

नामसुराणां प्रलम्बचाणूरमुष्टिक धेनुकादीनां नाशनः, कर्तरि

ल्युट् । अथवा 'फणामणिसहस्रेण यः स विद्योतयन् दिशः ।

सर्वान् करोति निर्वीर्यान् हिताय जगतोऽसुरान्' इत्युक्तप्र-

कारविशिष्टः । पापहन्ता, कीर्तनश्रवणादिना पातकान्निवर्तकः ।

'
अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान्विमुच्यते

द्यः सिंहत्रस्तैर्मृगैरिव' इत्यादिपुराणवचनात् । सर्वज्ञः सर्वे
वं
जानातीति 'इगुपधशाज्ञाप्रीकिर: क: ' इति कः । पतञ्जल्यादि-
*

रू
पेण जगति ज्ञानप्रतिष्ठापनात् । सर्वसाक्षी,
सर्वस्य शुभाशु-
6