This page has been fully proofread once and needs a second look.



यमादिषडङ्गनिष्पाद्यस्य परमेश्वरैक्यानुभवसमाधिमातुः निदि-
ध्यासनस्य प्राधान्यम् 'तद्रूपप्रत्ययैकान्तसंततिश्चान्यनिःस्पृहा ।
तद्ध्यानप्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप । तस्यैव कल्पनाहीनं
स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यः समाधिः सोऽ-
भिधीयते' इति वचनात्,'श्रेयो हि ज्ञानमभ्यासात् ज्ञाना-
द्ध्यानं विशिष्यते' इति भगवद्वचनात्, 'सर्वेषामेव यज्ञानां
ध्यानयज्ञः परः स्मृतः । बहिर्योगोपचारेण पूजयति शं-
करम् । ध्यानयज्ञेन सततं स याति परमां गतिम् । ज्ञानध्या-
नात्मक: सूक्ष्म: शिवयोगमहामखः । विशिष्टः सर्वयज्ञाना-
मसंख्यातैर्महागुणैः । जपेन पापसंशुद्धिर्ज्ञानध्यानेन मुच्यते'
इत्यादिवचनैः ज्ञानस्य कृतत्वात् तस्य च धारणामूलकत्वात्
तस्याश्च 'यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा
चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्' इति प्रशस्तत्वात्
'तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं
सा तु विज्ञेया शुद्धधारणा । अन्ये तु पुरुषव्याघ्र चेतसो ये
व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः '
इत्यादिवचनात् कर्मयोगित्वेनाशुद्धान् देवादीनपास्य कर्मपा-
रतन्त्र्यरहिते भक्तानुग्रहाय कृतपरिग्रहे विशुद्धतत्त्वात्मके स-
मस्तशक्त्याधारे सर्वावतारबीजभूते घृतकाठिन्यवत् परब्रह्मणो
विष्ण्वाख्ये विवर्ते सच्चिदानन्दैकरसे सकलमङ्गलप्रसोतरि