This page has been fully proofread once and needs a second look.


 

 
विष्णुपादादि-

6
 

 
यमादिषडङ्गनिष्पाग्रद्यस्य परमेश्वरैक्यानुभवसमाधिमातुः निदि-

ध्यासनस्य प्राधान्यम् 'तद्रूपप्रत्ययैकान्तसंततिश्चान्यनिःस्पृहा ।

तद्ध्यान प्रथमैरङ्गैः षड्भिर्निष्पाद्यते नृप । तस्यैव कल्पनाहीनं

स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यः समाधिः सोऽ-

भिधीयते' इति वचनात्,
'श्रेयो हि ज्ञानमभ्यासात् ज्ञाना-
द्ध

द्ध्
यानं विशिष्यते' इति भगवद्वचनात्, 'सर्वेषामेव यज्ञानां

ध्यानयज्ञः परः स्मृतः । बहियोंर्योगोपचारेण यः पूजयति शं-

करम् । ध्यानयज्ञेन. सततं स याति परमां गतिम् । ज्ञानध्या-

नात्मक: सूक्ष्म: शिवयोगमहामखः । विशिष्टः सर्वयज्ञाना-

मसंख्यातैर्महागुणैः । जपेन पापसंशुद्धिशीर्ज्ञानध्यानेन मुच्यते'

इत्यादिवचनैः ज्ञानस्य कृतत्वात् तस्य च धारणामूलकत्वात्

तस्याश्च 'यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा

चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्' इति प्रशस्तत्वात्

'
तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः । कुर्वीत संस्थितिं

सा तु विज्ञेया शुद्धधारणा । अन्ये तु पुरुषव्याघ्र चेतसो ये

व्यपाश्रयाः । अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः '

इत्यादिवचनात् कर्मयोगित्वेनाशुद्धान् देवादीनपास्य कर्मपा-
स्तर

रतन्त्र्यरहिते
भक्तानुग्रहाय कृतपरिग्रहे विशुद्धतत्त्वात्मके स-

मस्तशक्
त्याधारे सर्वावतारबीजभूते घृतकाठिन्यवत् परब्रह्मणो

विष्ण्वा
ख्येिये विवर्ते सच्चिदानन्दैकरसे सकलमङ्गलप्रसोतरि
 

 
मरा