This page has not been fully proofread.

विष्णुपादादि
 

 
विश्वस्य सर्वस्य जगतः ईश्वर: स्वामी तस्य । प्रवरशयन-
कृत्, मण्डलीकृतेन स्वभोगमण्डलेनोत्कृष्टतल्पनिर्माता । अ
थवा 'शङ् िस्वप्ने' इति धात्वर्थाश्रयणात् प्रशस्तनिद्रासुख-
जनकः, शय्यात्वेनेत्यर्थात् । अनिद्रस्य भगवतो निजस्वरूपा-
नुसन्धानस्य निद्रात्वेन नाटितत्वात् प्रवरत्वम्, 'एकार्णवे
ततस्तस्मिन् शेषशय्यास्तृते प्रभुः । ब्रह्मरूपधरः शेते भगवा-
नादिकृद्धरि: ' 'आत्ममायामयीं दिव्यां योगनिद्रां समाश्रितः ।
आत्मानं वासुदेवाख्यं चिन्तयन् परमेश्वरम्' इति श्रीविष्णु-
पुराणवचनात् । विश्वेश्वरस्य प्रवरशयनकृदित्यनेन – आधे-
यानुगुण्येन ह्याधारेण भवितव्यम् । अतस्तद्वहने को-
ऽन्यः प्रगल्भते ? इति श्रोत्यते । सर्वलोकैकधर्ता, सर्वस्य
चतुर्दशसंख्याकस्य भुवनस्य एकः असहायो धर्ता धा-
रक इत्यनेन कुक्षिनिक्षिप्तजगदण्डस्य पुण्डरीकाक्षस्य धा
रणे शक्तिः प्रकाश्यते । 'आदिश्यते भूधरतामवेक्ष्य
कृष्णेन देहोद्वहनाय शेष: ' इति कुमारसंभवोक्तेः ।
प्रवरशयनकृत् सर्वलोकैकधर्तेत्याभ्यां विशेषणाभ्यामनन्यश-
क्ययोर्द्वयोः कार्ययोर्युगपदनुष्ठाने निरायासत्वं ध्वन्यते । अन्तः
परिच्छेदः तद्रहितोऽनन्तः इति यौगिकेन नामपदेन देश-
कालवस्तुपरिच्छेदरहितत्वमाह । सर्वभूतः, अपरिच्छिन्न एव
लीलया सर्व परिच्छिन्नं जगत् भूतः जातः सर्वभूतः । न तु
 
२८