This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
जालं गगने च वितन्वता' इति रघुवंशोक्तेश्च । सुपर्णम्,
शोभनं पर्ण पक्षो यस्येति सुरमुनिविहितं गौणं नाम प्रति-
पादयन् सकलसुरबलसह चरितबलमथनकरतुलितकुलिशशि-
खरपतनमपि तृणवदविगणय दमृतहरणविहरणविजितगगन-
चरनिवहमतुलमस्य वैभवमनुस्मारयति कविः । वन्दे शरी-
रेण प्रणमामि वाचा स्तौमि च इत्यर्थः । मनःप्रावण्यं त्वर्थात्सि-
द्धमेव, तत्पूर्वत्वात् सर्वप्रवृत्तीनाम् । अत्र सूक्ष्मम् अप्रस्तुतप्र-
शंसा पर्यायोक्तं च अलंकाराः सूक्ष्मार्थप्रकाशनात्, गर्भप-
कार्यमुखेन कारणस्य क्रौर्यस्य प्रकाशनात्, फणिकुलवै-
रस्य पर्यायेण प्रतिपादनाच्च ॥ ६ ॥
 
9
 
तनक।
 
२७
 
' तं त्वौपनिषदं पुरुषं पृच्छामि, ' 'वेदान्तविज्ञानसु
निश्चितार्था: ' इत्यादिवचनैर्वेदस्यैव सम्यग्ज्ञानसाधनत्वात्
तत्सिद्धये छन्दोमयं शकुन्तराजमुपास्य इदानीं भगवन्मूर्ति-
रूपं परमगुरुरूपं भगवन्तमनन्तमुपास्ते-
विष्र्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता
सोऽनन्तः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः ।
पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहन्ता
सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥