This page has not been fully proofread.

विष्णुपादादि-
-
 
चेत्, उच्यते – ' द्विहृदयां नारीं दोहदिनीमित्याचक्षते' इति
वैद्यकोक्तेः गर्भस्य मातुश्च एकहृदयत्वात् मातॄणां संचि
न्तनमेव गर्भाणां संचिन्तनमित्यभिप्रेत्योक्तम् । अतो न
कश्चिद्विरोधः । ईदृशस्य किं निमित्तमित्यत्राह – चञ्चच्चण्डो-
रुतुण्डत्रुटितफणिवसारक्तपङ्काङ्किास्यं चञ्चता ग्रासग्रसनाच्च-
लता चण्डेन निशिततर शिखरतया कुलिशवत् ॠरेण उरुणा
विस्तीर्णेन तुण्डेन चञ्चुपुटेन त्रुटितानां खण्डितानां फणिनां
नागानां वसाया मेदसो रक्तस्य रुधिरस्य च पङ्केन पङ्क-
वत् सान्द्रेण द्रवेण अङ्कितं चिह्नितं कदाचिदप्यरहितमास्यं
मुखं यस्येति फणिविषयं वैरानुबन्धमाह । रौद्रश्च रसोऽत्र
ध्वन्यते । 'छन्दोमयं वेदप्रकृतिकम् ' 'सुपर्णोऽसि गरुत्मान्
त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनुर्वाम-
देव्यं बृहद्रथन्तरे पक्षौ' इत्यादिश्रुतेः वेदस्यैव भगवद्धा-
रणे सामर्थ्यमिति भावः । खगपतिं पक्षिराजत्वेन जगदनु-
ग्रहाय बालखिल्यानां तपसा प्रादुर्भूतम् । अमलस्वर्णवर्णम् .
अग्निना बहुश: शोधितत्वात् श्यामिकारहितस्य काञ्चनस्येव
स्निग्धारुणोज्ज्वल: वर्णः शरीरकान्तिर्यस्येति प्रकृतिभूतो
वर्ण उच्यते । तत्तत्फलविशेषकामनया पञ्चवर्णत्वादीनाम-
ध्यस्तत्वात् । यथा जलदनीलस्य वासुदेवस्य सितपीतरक्त-
वर्णादिध्यानविशेष इति न कश्चिद्विरोध: । 'हेमपत्रप्रभा-
२६