This page has been fully proofread once and needs a second look.

विष्णुपादादि-
-
 

चेत्, उच्यते – ' द्विहृदयां नारीं दोहदिनीमित्याचक्षते' इति

वैद्यकोक्तेः गर्भस्य मातुश्च एकहृदयत्वात् मातॄणां संचि
-
न्तनमेव गर्भाणां संचिन्तनमित्यभिप्रेत्योक्तम् । अतो न

कश्चिद्विरोधः । ईदृशस्य किं निमित्तमित्यत्राह – चञ्चच्चण्डो-

रुतुण्डत्रुटितफणिवसारक्तपङ्काङ्किाकितास्यं चञ्चता ग्रासग्रसनाच्च-

लता चण्डेन निशिततर शिखरतया कुलिशवत् क्रूरेण उरुणा

विस्तीर्णेन तुण्डेन चञ्चुपुटेन त्रुटितानां खण्डितानां फणिनां

नागानां वसाया मेदसो रक्तस्य रुधिरस्य च पङ्केन पङ्क-

वत् सान्द्रेण द्रवेण अङ्कितं चिह्नितं कदाचिदप्यरहितमास्यं

मुखं यस्येति फणिविषयं वैरानुबन्धमाह । रौद्रश्च रसोऽत्र

ध्वन्यते । 'छन्दोमयं वेदप्रकृतिकम् ' 'सुपर्णोऽसि गरुत्मान्

त्रिवृत्ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनुर्वाम-

देव्यं बृहद्रथन्तरे पक्षौ' इत्यादिश्रुतेः वेदस्यैव भगवद्धा-

रणे सामर्थ्यमिति भावः । खगपतिं पक्षिराजत्वेन जगदनु-

ग्रहाय बावालखिल्यानां तपसा प्रादुर्भूतम् । अमलस्वर्णवर्णम् .

अग्निना बहुश: शोधितत्वात् श्यामिकारहितस्य काञ्चनस्येव

स्निग्धारुणोज्ज्वल: वर्णः शरीरकान्तिर्यस्येति प्रकृतिभूतो

वर्ण उच्यते । तत्तत्फलविशेषकामनया पञ्चवर्णत्वादीनाम-

ध्यस्तत्वात् । यथा जलदनीलस्य वासुदेवस्य सितपीतरक्त-

वर्णादिध्यानविशेष इति न कश्चिद्विरोध: । 'हेमपत्रप्रभा-
२६