This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

क उच्यते प्राणः भूतः जातः विश्वात्मनो विश्वाधारस्य भग-

तो धारणात् । अथवा प्राणः परमात्मा । 'प्राणस्तु प्रणवे

जीवे जीविते परमात्मनि । इन्द्रिये वायुभेदे ना बलान्तर्यामि-
गो

णो
रपि ' इति वैजयन्ती । प्राणहरणप्रवीणफणिनिरसनात् प्रण-
षा

वा
त्मकत्वाद्वायुत्वाद्वा । अत एव हि निरतिशय वेगत्वम् ।

'सुपर्णो वायुवाहन: ' इति स्मृतेश्च । हरेस्तनुः मूर्तिभेदः ।

अपिशब्दो यच्छब्दानुकर्षणार्थ: । 'वैनतेयश्च पक्षिणाम्' इति

भगवद्वचनात् । चकारो भिन्नक्रमः यानकेतुस्वरूप इत्यनुकर्ष-

णार्थः यानं वाहनं तत्स्वरूपः, केतुः ध्वजः सामर्थ्यात् तचिह्न -

स्वरूपश्च । गरुडवाहनत्वात् गरुडध्वजत्वाच्च भगवतः । सं-

चिन्त्य, जगदण्डखण्डनपण्डितचण्डिमविशिष्टत्वेन निरूप्ये-

त्यर्थ: । एवेति दर्शनादीनामनपेक्षितत्वमाह । सद्यः तदन-

न्तरमेवेति क्षणान्तरविलम्बाभावः सूच्यते । उरगवधूवर्ग-

गर्भाः उरगाः नागाः तेषां वधूवर्गस्य भार्यासमूहस्य गर्भाः

कुङ्क्षिस्था जन्तवः स्वयं पतन्ति । आघाताद्यन्तरेणापि भयव-

शात् स्वतो विलीय क्षरन्तीत्यर्थः । संचिन्त्य पतन्तीति पूर्व-

कालिक क्रियायाः संचिन्तनस्य उत्तरकालिकक्रियायाः पतनस्य
1

'समानकर्तृकयो : पूर्वकाले' इति स्मृतेः समानकर्तृकत्वं

प्रतीयते । संचिन्तनं च तेषामुदराभ्यन्तरवर्तिनामचेतनक-

म्
पानामनुपपन्नम् । पतनं तु युज्यत एव । तत् कथमिति
 

 
२५