This page has been fully proofread once and needs a second look.

कस्य दुकूलस्य अन्तः पर्यन्तभागो यस्याः दयितेव प्रिय-
तमा लक्ष्मीरिवेत्यर्थः । अथवान्वयः प्रियतमेवेति । पूर्वस्मि-
न्नर्थे श्लेषोऽलंकारः । उत्तरस्मिन्पुनः श्लेषानुगृहीतोत्प्रेक्षा ।
अस्येति मुरारेरिति प्रस्तुतत्वात् भगवतः । 'कौमोदकी
गदा' इत्यमरः । कामं काम्यते प्रार्थ्यते इत्यभिमतमर्थम्
ईश्वरैक्यानुभवरूपमित्यर्थः प्रदिशतु ददातु । अत्र कम्राकारे-
त्यादावर्थश्लेषः पर्यायपरिवृत्तिसहत्वात्, सम्यग्वृत्तेत्यादौ शब्द -
श्लेष: तदसहत्वात्, लोहितालेपनार्द्रेत्युभयश्लेषश्चोभयरूपत्वा-
दनुसन्धेयः । 'विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेष: '
इति लक्षणात् उपमानोपमेययोर्द्वयोरप्युपादानादविशिष्टोऽयं
श्लेषः ॥
 
इत्थं पञ्चश्लोक्या परमेश्वरस्य प्रपञ्चरक्षणैकसहायभूतां
पञ्चायुधीमुपास्य संप्रति तन्मूर्तिभेदं भगवन्तं गरुत्मन्तमुपा-
सितुमुपक्रमते-
 
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो
यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।
चञ्चञ्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं
वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णे सुपर्णम् ॥
 
विश्वस्य ब्रह्माण्डस्यैव प्राणः प्राणयति जीवयतीति धार-