This page has been fully proofread once and needs a second look.

विष्णुपादादि-

कस्य दुकूलस्य अन्तः पर्यन्तभागो यस्याः दयितेव प्रिय-

तमा लक्ष्मीरिवेत्यर्थः । अथवान्वयः प्रियतमेवेति । पूर्वस्मि-

न्
नर्थे श्लेषोऽलंकारः । उत्तरस्मिन्पुनः श्लेषानुगृहीतोत्प्रेक्षा ।

अस्येति मुरारेरिति प्रस्तुतत्वात् भगवतः । 'कौमोदकी

गदा' इत्यमरः । कामं काम्यते प्रार्थ्यते इत्यभिमतमर्थम्

ईश्वरैक्यानुभवरूपमित्यर्थः प्रदिशतु ददातु । अत्र कम्राकारे-

त्यादावर्थश्लेषः पर्यायपरिवृत्तिसहत्वात्, सम्यग्वृत्तेत्यादौ शब्द -

श्लेष: तदसहत्वात्, लोहितालेपनार्द्रेत्युभयश्लेषश्चोभयरूपत्वा-
२४
 

दनुसन्धेयः । 'विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेष: '

इति लक्षणात् उपमानोपमेययोर्द्वयोरप्युपादानादविशिष्टोऽयं

श्लेषः ॥
 

 
इत्थं पञ्चश्लोक्या परमेश्वरस्य प्रपञ्चरक्षणैक सहायभूतां

पञ्चायुधीमुपास्य संप्रति तन्मूर्तिभेदं भगवन्तं गरुत्मन्तमुपा-

सितुमुपक्रमते-
-
 

 
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो

यं संचिन्त्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ।

चञ्चञ्चण्डोरुतुण्डत्रुटितफणिवसारक्तपङ्काङ्कितास्यं

वन्दे छन्दोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥

 
विश्वस्य ब्रह्माण्डस्यैव प्राणः प्राणयति जीवयतीति धार-