This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
रुदरेण अनुरागात् निजपराक्रमानुगुणसाहाय्य करणस्नेहात्
रत्याख्यभावबन्धप्रकर्षाच्च गृहीता धारिता परिणीता च सम्य-
वृत्ता शोभनवर्तुलाकारा विशुद्धचारित्रा च । 'वृत्तं च
वर्तुलम् । आचारो वृत्तचारित्रचरित्रचरणानि च ' इति वै-
जयन्ती ! अग्रे स्थिता सदा समरोन्मुखत्वेन पुरतः निहिता ;
आज्ञाप्यताम् किं करोमि इति नियोगानुगुण्येन दृष्टिगोचरे
स्थिता च । परेषां शत्रूणां दर्शनं रणोद्योगेनाभिमुग्त्रीभूयाग्रे
स्वप्रकाशनं सपदि न सहते शीघ्रं न क्षमते, समग्रदर्श-
नात् पूर्वमेव तेषामुपसंहरणात् ; परेषां भर्तुरन्येषां दर्शनं तैरा-
त्मनो विलोकनं स्वकर्तृकं वा तद्दर्शनं सपदि न सहते
कुलाङ्गनात्वादाशु तिरोभावात् । राजन्ती दीप्यमाना, तेजो-
मयत्वात्; मङ्गलालंकार विशिष्टतया शोभमाना च । दैत्य-
जीवासवमदमुदिता, असुराणां प्राणरूपेणासवेन स्वया तद्र-
सस्यादरेण पीयमानत्वादर्थात् पीतेन यो मदः चित्तोल्लामः तेन
मुदिता हृष्टा; दैत्यानामतिवल्लभतया जीवभूतस्यासवस्य म
देन मुदिता च । लोहितालेपनार्द्रा, प्रस्तावाद्वैत्यानामेव लोहि-
तेन रुधिरेण यदालेपनं रूषितत्वं तेनार्द्रा चिक्कणमूर्तिः ;
लोहितेन अरुणवर्णेन कुङ्कुमादिना लेपनेन अङ्गरागेण आर्द्रा
शीतलाङ्गी च । दीप्तांशुकान्ता, उज्ज्वलैरंशुभिः किरणैः
कान्ता अभिरामा, दीप्तो हंसादिशिल्पकल्पनोद्भासितः अंशु-
२३