2023-05-06 14:21:41 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
रुदरेण अनुरागात् निजपराक्रमानुगुणसाहाय्य
रत्याख्यभावबन्धप्रकर्षाच्च गृहीता धारिता परिणीता च सम्य-
ग्वृत्ता शोभनवर्तुलाकारा विशुद्धचारित्रा च । 'वृत्तं च
वर्तुलम् । आचारो वृत्तचारित्रचरित्रचरणानि च ' इति वै-
जयन्ती
आज्ञाप्यताम् किं करोमि इति नियोगानुगुण्येन दृष्टिगोचरे
स्थिता च । परेषां शत्रूणां दर्शनं रणोद्योगेनाभिमु
स्वप्रकाशनं सपदि न सहते शीघ्रं न क्षमते, समग्रदर्श-
नात् पूर्वमेव तेषामुपसंहरणात् ; परेषां भर्तुरन्येषां दर्शनं तैरा-
त्मनो विलोकनं स्वकर्तृकं वा तद्दर्शनं सपदि न सहते
कुलाङ्गनात्वादाशु तिरोभावात् । राजन्ती दीप्यमाना, तेजो-
मयत्वात्; मङ्गलालंकार
जीवासवमदमुदिता, असुराणां प्राणरूपेणासवेन स्वया तद्र-
सस्यादरेण पीयमानत्वादर्थात् पीतेन यो मदः चित्तोल्ला
मुदिता हृष्टा; दैत्यानामतिवल्लभतया जीवभूतस्यासवस्य म
देन मुदिता च । लोहितालेपनार्द्रा, प्रस्तावाद्
तेन रुधिरेण यदालेपनं रूषितत्वं तेनार्द्रा चिक्कणमूर्तिः ;
लोहितेन अरुणवर्णेन कुङ्कुमादिना लेपनेन अङ्गरागेण आर्द्रा
शीतलाङ्गी च । दीप्तांशुकान्ता, उज्ज्वलैरंशुभिः किरणैः
कान्ता अभिरामा, दीप्तो हंसादिशिल्पकल्पनोद्भासितः अंशु-
२३