This page has not been fully proofread.

विष्णुपादादि-
पुंसो विद्यया च विमुच्यते' इति वचनैः, अतः तद्रूपो न
न्दकः । विदेहकैवल्यरूपनित्यानन्दप्रार्थनोपपत्तिः, 'पुण्य-
रज्ज्वा व्रजेदूर्ध्व पापरज्ज्वा व्रजेदध: । द्वयं ज्ञानासिना
छित्वा विदेहः शान्तिमृच्छति' इत्यत्रापि विज्ञानात्मकं नन्द-
कमभिप्रेत्य ज्ञानासिनेत्युक्ति: । उपमा अत्र अलंकारः ॥ ४ ॥
 
२२
 
विद्यातत्त्वात्मकमसिरत्नमुपास्य इदानीं 'बुद्धिरस्यास्ते गदा-
रूपेण माधवम्' इति वचनात् बुद्धितत्त्वात्मिकां गदामुपा-
सितुमुपक्रमते, विशुद्धबुद्धिविधेयत्वाद्विद्यायाः, 'नास्ति बुद्धि-
रयुक्तस्य न चाबुद्धस्य भावना' इत्यादिभगवद्वचनात् 'सर्वे-
षामेव लाभानां प्रज्ञालाभः परः स्मृतः' इति, 'शुद्धा हि
बुद्धिः किल कामधेनुः' इत्यादिवचनात् ॥
 
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता
सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् ।
राजन्ती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा
कामं दीप्तांशुकान्ता प्रदिशतु दयितेवास्य कौमोदकी नः ॥
 
कम्रः सुन्दरः । 'कमुकान्तौ' इत्यस्मात् ' नमिकम्पिस्म्य-
जसकमहिंसदीपो र: ' इत्यादिना रः । आकार: संस्थान-
विशेषो यस्याः । करकमलतलेन पद्मवत् कोमलस्य पाणे-