2023-02-16 09:31:28 by ambuda-bot
This page has not been fully proofread.
केशान्तस्तोत्रम् ।
भवति क्षेमस्तस्य पुण्यप्रदो वध: ' इति स्मृतेः ।
अत एव त्रिदशरिपुशब्देनोक्ति: । त्रिदशा देवाः तेषां
रिपव: शत्रव इति धर्मधुक्त्वोपलक्षणम्, 'वैषम्यनैर्घृण्ये
म सापेक्षत्वात् ' इति स्मृतेः । त्रिदशरिपूणां वपुः
।
'शरीरं तस्य यच्छोणितं रुधिरं तदास्वादेन तद्रसानुभ-
वेन तृप्तः प्रीतः ; दृतः इति वा पाठः, गर्वित इत्यर्थः ।
नित्यानन्दाय, शब्दादिविषयानुभवस्फुरितानामध्यात्मरूपत्वे-
ऽप्यौपाधिकत्वेनानित्यत्वात् निरुपाधेरात्मस्वरूपस्यैव नित्य-
त्वादानन्दत्वाच्च, 'अजो नित्यः शाश्वतोऽयं पुराण:
' 'वि-
ज्ञानमानन्दं ब्रह्म ' इत्यादिश्रुतेः । तस्मै तं नित्यमानन्दम्
आत्मत्वेनानुभावयितुं 'तुमर्थाच्च भाववचनात् ' इति च-
तुर्थी । भूयादित्याशिषि लिङ् । मधुमथनमनोनन्दनः, मधु-
कैटभाख्ययोरसुरयोर्मध्ये मधुसंज्ञकस्य मथनः हिंसक इति
तुष्टमथनताच्छील्योपलक्षणम् । तस्य भगवतो मनो हृदयं
नन्दयितुं शीलं यस्य । स्वाशयानुरूपं रिपुविशसनानुष्ठाना-
दिति भावः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति
ल्युट् । नन्दक इति योगरूढ्या संज्ञा, 'नाम्नापि तस्यैव
म नन्दकोऽभूत् ' इति माघोक्तेः । 'कौमोदकी गदा खड्जो
मन्दक: इत्यमरः । नन्दकस्य विद्यात्मकत्वात् अविद्या-
तस्य बन्धस्य विद्ययैव निवर्त्यत्वात् 'बन्धोऽस्याविद्यया
;
२१