This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

भवति क्षेमस्तस्य पुण्यप्रदो वध: ' इति स्मृतेः ।

अत एव त्रिदशरिपुशब्देनोक्ति: । त्रिदशा देवाः तेषां

रिपव: शत्रव इति धर्मधुध्रुक्त्वोपलक्षणम्, 'वैषम्यनैर्घृण्ये

सापेक्षत्वात् ' इति स्मृतेः । त्रिदशरिपूणां वपुः


'शरीरं तस्य यच्छोणितं रुधिरं तदास्वादेन तद्रसानुभ-

वेन तृप्तः प्रीतः ; दृतःप्त: इति वा पाठः, गर्वित इत्यर्थः ।

नित्यानन्दाय, शब्दादिविषयानुभवस्फुरितानामध्प्यात्मरूपत्वे-

ऽप्यौपाधिकत्वेनानित्यत्वात् निरुपाधेरात्मस्वरूपस्यैव नित्य-

त्वादानन्दत्वाच्च, 'अजो नित्यः शाश्वतोऽयं पुराण:
'
''वि-

ज्ञानमानन्दं ब्रह्म ' इत्यादिश्रुतेः । तस्मै तं नित्यमानन्दम्

आत्मत्वेनानुभावयितुं 'तुमर्थाच्च भाववचनात् ' इति च-

तुर्थी । भूयादित्याशिषि लिङ् । मधुमथनमनोनन्दनः, मधु-

कैटभाख्ययोरसुरयोर्मध्ये मधुसंज्ञकस्य मथनः हिंसक इति
तु

दु
ष्टमथनताच्छील्योपलक्षणम् । तस्य भगवतो मनो हृदयं

नन्दयितुं शीलं यस्य । स्वाशयानुरूपं रिपुविशसनानुष्ठाना-

दिति भावः । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः' इति

ल्युट् । नन्दक इति योगरूढ्या संज्ञा, 'नाम्नापि तस्यैव

नन्दकोऽभूत् ' इति माघोक्तेः । 'कौमोदकी गदा खड्जो
गो
न्दक:' इत्यमरः । नन्दकस्य विद्यात्मकत्वात् अविद्या-

मयस्
तस्य बन्धस्य विद्ययैव निवर्त्यत्वात् 'बन्धोऽस्याविद्यया
 
;
 
२१