This page has been fully proofread once and needs a second look.

विष्णुपादादि-

राग्रः निशितोभयधारः स्पष्टमुष्टिः पट्टिकाकार संस्थान विशेषः ।

यस्य मूर्तिरित्यनेन मूर्तिमत्या देवतायाः पृथक्त्वं तत्संबन्धित्वं

च मूर्ते: प्रकाश्यते । असिः खड्गः । ' खड्गः प्रचारोऽसि : '

इति वैजयन्ती । त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृतः
प्त:
प्राणापाये भयेनाकुलानि तरलान्यक्षीणि येषाम् । ननु महा-

वीराणामसुराणां कथं त्रासाकुलाक्षत्वम् ? कथं च भगवतो

धीरोदात्तशिखामणेः परमकारुणिकस्य भीतजनहिंसोद्यमश्चा-

चार्यै: प्रतिपाद्यत इति, उच्यते – 'भये सर्वेऽपि बिभ्यति '

इतिः श्रीरामायणोक्तरीत्या सर्वेषामपि प्रबलशत्रुवशवर्तित्वेन प्रा-

णापायनिर्णये स्वयमेव भयस्य प्रादुर्भाव उपपन्न: - यथा महा-

भारतसमरारम्भसमये महावीरस्य सव्यसाचिन: स्नेहकातर्यो-

दय:,
यथा च तस्यैव भगवद्विश्वरूपदर्शनेन 'सगद्गदं भीत-

भीत: प्रणम्य' इत्यादिवचनैः भीतत्वप्रतिपादनम् । अत एव हि
त्वा

त्रा
साकुलाक्षेत्युक्तिः । न तु त्रासाकुलितेत्युक्तिः स्वारसिकत्वं

द्योतयितुम् । महावीरस्य करुणाकरस्यापि भगवतो धर्मत्राणाय

दुष्टजननिग्रहोद्यमोऽपि न दोषाय । 'वध्य: सर्प इवानार्य : '
:'
इति, 'निपातनीया हि सतामसाधवः ' इति, 'अवध्ये यो

भवेद्दोषो वध्यमाने जनार्दन । स वध्यस्यावधे दृष्ट इति धर्म-

विदो विदुः' इत्यादिवचनैः प्रत्युत धर्मत्वावगमात् ।

' एकस्मिन् यत्र निधनं प्रापिते दुष्टचारिणि । बहूनां
 
दयः,
 
२०