This page has been fully proofread once and needs a second look.



रत्नम् अज्ञाननिरसनेन सभ्यग्ज्ञानप्रकाशनाय वरिवसितुमा-
रमते-
 
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयन्ती
युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।
सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृप्तो
नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥
 
अर्थान्नवमेघस्येव श्यामा नीला भाः प्रभा यस्य तेन
मुहुः अनुक्षणम् । अपिर्भिन्नक्रमः । भगवद्बाहुना पुरुषो
त्तमस्य भुजेन युद्धेषु मुहुरुद्धूयमाना प्रतिक्षणं कम्प्यमाना-
पीत्यन्वयः । अपिशब्देनैतदाह - प्रथमे द्वितीये वा
दर्शने तटिद्भ्रान्तिः पश्यतां भवतु नाम, शतशो दर्शनेऽपि
भुजस्य जीमूतसाम्यसंपत्तेरसिवरस्य च स्फुरद्रूपत्वात् पश्यतां
तटिद्भ्रान्तिः सर्वदा कथं भवतीत्याश्चर्यमेतदत्र दृष्टमिति ।
अमुमेवार्थं विवृणोति मोहयन्तीति । तरुणजलदे स्फुरन्ती
इयं तटित् मम शिरसि पतति मम शिरसि पतेदिति प्रत्येकं
रिपूणां भगवत्प्रचारशैध्य्रात् व्याकुलतामादधानेत्यर्थः । झ-
टिति शीघ्रम् । तटित् विद्युदिव आलक्ष्यते, समन्तात् दृश्यते ।
झटिति दृश्यते इत्यनेन तरणिकिरणप्रतिफलनाप्रतिफलनयोर्दर्श-
नादर्शनाभ्यां तटित्स्वभावस्फुटीभावः प्रकाश्यते। मूर्ति: उग्रत-