This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

 
रत्नम् अज्ञाननिरसनेन सभ्यग्ज्ञानप्रकाशनाय वरिवसितुमा-

रमते-
१९
 

 

 
जीमूतश्यामभासा मुहुरपि भगवद्वाबाहुना मोहयन्ती

युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः ।

सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुः शोणितास्वादतृप्तो

नित्यानन्दाय भूयान्मधुमथनमनोनन्दनो नन्दको नः ॥
 
-
 

 
अर्थान्नवमेघस्येव श्यामा नीला भाः प्रभा यस्य तेन

मुहुः अनुक्षणम् । अपिर्भिन्नक्रमः । भगवद्बाहुना पुरुषो

त्तमस्य भुजेन युद्धेषु मुहुरुद्धूयमाना प्रतिक्षणं कम्प्यमाना-

पीत्यन्वयः । अपिशब्देनैतदाह - प्रथमे द्वितीये. वा

दर्शने तटिङ्क्द्भ्रान्तिः पश्यतां भवतु नाम, शतशो दर्शनेऽपि

भुजस्य जीमूतसाम्यसंपत्तेरसिवरस्य च स्फुरद्रूपत्वात् पश्यतां
तटिद्धा

तटिद्भ्रा
न्तिः सर्वदा कथं भवतीत्याश्चर्यमेतदत्र दृष्टमिति ।

अमुमेवार्थं विवृणोति मोयन्तीति । तरुणजलदे स्फुरन्ती

इयं तटित् मम शिरसि पतति मम शिरसि पतेदिति प्रत्येकं

रिपूणां भगवत्प्रचारशैव्याध्य्रात् व्याकुलतामादधानेत्यर्थः । झ
-
टिति शीघ्रम् । तटित् विद्युदिव आलक्ष्यते, समन्तात् दृश्यते ।

टिति दृश्यते इत्यनेन तरणिकिरणप्रतिफलनाप्रतिफलनयोर्दर्श-
•ना

ना
दर्शनाभ्यां तटित्स्वभावस्फुटीभावः प्रकाश्यते। मूर्ति: उग्रत-