This page has been fully proofread once and needs a second look.

   श्रीः श्री:

विष्णुपादादि-

केशान्तस्तोत्रम्

 

जात्याख्यागुणकर्मवर्जिततया निर्णीतमप्यागमै-
र्जात्या यं पशुपालमाप्तवचसः कृष्णं गृणन्त्याख्यया ।
श्रीशं ज्ञानिनमीश्वरं सुयशसं वीरं विरक्तं गुणै-
स्त्रातारं जगतां च कर्मभिरहो देवाय तस्मै नमः ॥
 
श्रीमच्छंकरपूज्यपादरचितं पादादिकेशावधि
स्तोत्रं दात्रमघस्य नेत्रममलं गात्रं हरे: प्रेक्षितुम् ।
व्याचिख्यासति मय्यहो सति सतामेषा विधा हासितुं
व्यक्ता भक्तिरथापि विष्णुपदयोः पुष्णाति मे धृष्णुताम् ॥
 
तत्र तावत् 'आत्मा वा अरे द्रष्टव्यः' इति स्वविहितस्य आ-
त्मदर्शनस्य साधनतया श्रुत्या 'श्रोतव्यो मन्तव्यो निदिध्यासि-
तव्यः' इति प्रतिपादितानां श्रवणमनननिदिध्यासनानां मध्ये