This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
विष्णुपादादि-

केशान्तस्तोत्रम् ॥
 

 
3200
 

 
जात्याख्यागुणकर्मवर्जिततया निर्णीतमप्यागमै-
जी

र्जा
त्या यं पशुपालमाप्तवचसः कृष्णं गृणन्त्याख्यया ।

श्रीशं ज्ञानिनमीश्वरं सुयशसं वीरं विरक्तं गुणै-

स्त्रातारं जगतां च कर्मभिरहो देवाय तस्मै नमः ॥
 

 
श्रीमच्छंकरपूज्यपादरचितं पादादिकेशावधि
 

स्तोत्रं दात्रमघस्य नेत्रममलं गावंत्रंरेःरे: प्रेक्षितुम् ।

व्याचिख्यासति मय्यहो सति सतामेषा विधा हासितुं

व्यक्ता भक्तिरथापि विष्णुपदयोः पुष्णाति मे घृधृष्णुताम् ॥
 

 
तत्र तावत् 'आत्मा वा अरे द्रष्टव्यः' इति स्वविहितस्य आ-

त्मदर्शनस्य साधनतया श्रुत्या 'श्रोतव्यो मन्तव्यो निदिध्यासि-

तव्यः' इति प्रतिपादितानां श्रवणमनननिदिध्यासनानां मध्ये