2023-02-16 09:31:27 by ambuda-bot
This page has not been fully proofread.
विष्णुपादादि-
वर्षणं च तस्मिन् कार्ये वार्मुच: मेघस्य । अनायासेन शक्त-
त्वात् पुष्कलावर्तकादेश्च । कार्मुकस्य शार्ङ्गख्यस्य धनुषः ।
कर्मसु लोकानुग्रहरूपेषु कार्येषु शक्तस्य, 'तत्कार्मुकं कर्मसु
यस्य शक्ति: ' इति भारविवचनात् । अत्र कार्मुकवर्णन-
प्रस्तावादाभिधाया नियन्त्रणादर्थान्तरप्रतीतिः शब्दशक्तिमूल-
ध्वनिविषयः रूपकालंकारपरिग्रहात् ध्वनेश्चमत्कारकारि
त्वात् । शरसलिलघटावार्मुच इति समस्तत्वात् हरिभुजेत्या-
दीनां संबन्धस्य क्लिष्टत्वादभवन्मतयोगदोषप्रसक्ति: व्याख्याता-
र्थस्य च कष्टकल्पनया प्रतीतिश्च अर्थपर्यालोचनपरैः सहृदयैः
सह्या, सर्वविदामाचार्याणामाशयस्यास्माभिर्दुरवगाहत्वात् ।
अथवा शरसलिलघटा इति व्यस्तं पदम् । शरसलिलस्य
षटां समूहमयते व्याप्नोतीति क्वित्रन्तव्युत्पत्त्या नादस्य विशे-
श्रणम् । 'धाराभिर्हस्तिहस्ताभिः इत्यत्र अमृततरङ्गिणीका-
रैस्तथा व्याख्यातत्वात् । वाक्यस्य असंबद्धार्थता मा भूदिति
वाच्यव्यङ्ग्ययोरर्थयोरुपमेयोपमानभावः कल्प्य इत्युपमालं-
कारो व्यङ्ग्यः ॥ ३ ॥
१८
अथ 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः इति
भगवद्वचनात् 'बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्त निर्मलम् ।
विद्यामयं तु तज्ज्ञानमविद्याचर्मसंस्थितम् इति श्रीविष्णु-
पुराणवचनाच्च अविद्याकोशसंस्थित विशुद्धाद्वैतज्ञानात्मकमसि-