This page has been fully proofread once and needs a second look.

विष्णुपादादि-

वर्षणं च तस्मिन् कार्ये वार्मुच: मेघस्य । अनायासेन शक्त-

त्वात् पुष्कलावर्तकादेश्च । कार्मुकस्य शार्ङ्गाख्यस्य धनुषः ।

कर्मसु लोकानुग्रहरूपेषु कार्येषु शक्तस्य, 'तत्कार्मुकं कर्मसु

यस्य शक्ति: ' इति भारविवचनात् । अत्र कार्मुकवर्णन-

प्रस्तावादाभिधाया नियन्त्रणादर्थान्तरप्रतीतिः शब्दशक्तिमूल-

ध्वनिविषयः रूपकालंकारपरिग्रहात् ध्वनेश्चमत्कारकारि

त्वात् । शरसलिलघटावार्मुच इति समस्तत्वात् हरिभुजेत्या-

दीनां संबन्धस्य क्लिष्टत्वादभवन्मतयोगदोषप्रसक्ति: व्याख्याता-

र्थस्य च कष्टकल्पनया प्रतीतिश्च अर्थपर्यालोचनपरैः सहृदयैः

सह्या, सर्वविदामाचार्याणामाशयस्यास्माभिर्दुरवगाहत्वात् ।

अथवा शरसलिलघटा इति व्यस्तं पदम् । शरसलिलस्य

टां समूहमयते व्याप्नोतीति क्वित्रन्तव्युत्पत्त्या नादस्य विशे-
श्र

णम् । 'धाराभिर्हस्तिहस्ताभिः इत्यत्र अमृततरङ्गिणीका-

रैस्तथा व्याख्यातत्वात् । वाक्यस्य असंबद्धार्थता मा भूदिति

वाच्यव्यङ्ग्ययोरर्थयोरुपमेयोपमानभावः कल्प्य इत्युपमालं-

कारो व्यङ्ग्यः ॥ ३ ॥
 
१८
 

अथ 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' इति

भगवद्वचनात् 'बिभर्ति यच्चासिरत्नमच्युतोऽत्यन्त निर्मलम् ।

विद्यामयं तु तज्ज्ञानमविद्याचर्मसंस्थितम्' इति श्रीविष्णु-

पुराणवचनाच्च अविद्याकोशसंस्थित विशुद्धाद्वैतज्ञानात्मकमसि-