This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
3
 

धुकार: । सुतार: सुष्टुठूच्चैस्तरध्वनिः संमिश्रत्वात् । 'उच्चैस्तरो

ध्वनिस्तार: ' इत्यमरः । सर्वे निरवशेषमित्यमर्षातिशयः । सं-

हर्तुतुं नाशयितुम् इच्छोः इच्छावत: । 'विन्दुरिच्छुः' इति नि-

पातनात्साधुः । देवतात्मत्वादिच्छुत्वोपपत्तिः । अरिकुलभुवनं

शत्रूणां धर्मद्रुहां कुलमेव भुवनं लोकं बाहुल्यात्, शत्रुकुलसदृ-

शं भुवनं च युगावसानेष्वधर्मबहुलत्वात् संहार्यत्वमिति भावः ।

नैमित्तिकप्रलयश्चात्र प्रसज्यत इति मन्तव्यम् । त्रिदश-

नुतिवचः प्रतिपादनात् भूर्भुवः स्वर्लोकानामेव तदानीमेकार्णव-

मग्नत्वप्रसिद्धेः । 'एकार्णवं भवत्येतस्त्रैलोक्यमखिलं ततः ।

ब्रह्मरूपधरः शेते भगवानादिकृद्धरिः । जनलोकगतैः सिद्धैः

सनकाद्यैरभिष्टुतः' इत्यादिश्रीविष्णुपुराणवचनात् । स्फार-

विष्फारनादः प्रवृद्धज्यास्फालनघोषः । 'धनुर्विष्फारनादस्य
'
इत्यादि महाभारतप्रयोगात्, 'विष्फारयांचकारास्त्रं बबन्धाथ

च बाणधी' इति भट्टिकाव्योक्तेः । परस्परघट्टनध्वनिश्च ।

संयत्कल्पान्तसिन्धौ, ब्रह्मदिवसावसानक्षुभितससुद्रवत् भीष-
गा

णा
यां संयति युद्धे 'संग्राम: समरोऽस्त्री स्त्री संयत् ' इति
ये

वै
जयन्ती । संयति समन्तात् व्याप्नुवति कल्पान्तसिन्धौ शर-

लिलघटावार्मुचः, सलिलं जलमिव सर्वाङ्गाप्लावकत्वात्

चेतितमेवान्तःप्रवेशित्वाच्च शरा बाणास्तेषां घटा घटन-

गविच्छिन्नमनवधिकं च मोक्षणं शरवदुद्वेजकानां घटा
 
2
 
"