This page has been fully proofread once and needs a second look.

विष्णुपादादि-

अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते-

रस्मान्विस्मेरनेत्र त्रिदशनुतिवचः साधुकारैः सुतारः ।

सर्वे संहर्तुमिच्छोररिकुलभुवनं स्फारविष्फारनादः

संयत्कल्पान्तसिन्धौंधौ शरसलिलघटावार्मुचः कार्मुकस्य ॥
 
१६
 
6
 

 
अव्यात् रक्षेत् इत्याशिषि लिङ् । अव रक्षणे इति धातुः ।

निर्घातघोरः निर्घातवत् भीषणः,
निर्धा
निर्घातैः
क्रूरश्च । 'पवनः

पवनाभिहतो गगनादवनीं यदा समापतति । भवति तदा

निर्घात : '' इति वराहमिहिर: । 'वातपातस्तु निर्धाघातश्चण्डको

ऽप्यशनिर्न षण् ' इति वैजयन्ती । हरिभुजपवनामर्शनाध्मात-

मूर्ते: नारायणस्य बाहुरेव वायुः, अप्रतिमबलत्वात्, पूतत्वाच्च,

तस्यामर्शनं स्पर्शनं तेन आध्माता आप्यायिता नभसि विस्ता

रिता व्यापारिता च मूर्तिर्यस्य ल्पकारथ माल्यादिशृङ्गाभमारु-

ह्यैरावतं गजम् । साहाय्यं कम्' इत्यामि वाय्वम्बू त्सर्ग योज
-
कः' इति श्रीविष्णुपुराणोक्ते विस्मेरनेत्रत्रिदशनुतिवचः
 

साधुकारैः सुतारः, विस्मेराणि अद्भुतेन रिपुनिरसनेन धारासा

रेण च विस्मयशीलानि चक्षूंषि येषाम् । 'नमिकम्पिस्म्यजस

कमहिंसदीपो र : ' इति रप्रत्ययः । मध्ये पदानां चमत्कारप्र

युक्तैः साधु साध्विति वचनकरणैश्च । 'णु स्तुतौ' इत्यस्मा
:
 
त्
स्त्रियां क्तिन्; नुतिः । हाहाकारो महानभूदित्यादिवत् सा