This page has been fully proofread once and needs a second look.

विष्णुपादादि-
,
 

तत्वात्स्रवन्त्या रक्तस्य रुधिरस्य धारया स्रोतसा अक्ता ि

धारा शिततरः पर्यन्तभागो नेमिसंज्ञो यस्य तत् । '७४,

स्त्राग्रेऽम्बुसंतत्यां सैन्यादेश्च गतिष्वपि ' इति वैजयन्द-

अनेन विशेषणेन साधुजनपरित्राणेन धर्मसंस्थापना व

दुष्कृतिजन विनाशनताच्छील्यं ध्वन्यते । शश्वत् नित्यं वियाः

सर्वस्य लोकस्य वन्द्यं स्तुत्यं विश्वस्य परमोपकरणात् । लव

तु ददातु । आशिषि प्रार्थने वा लोट् । 'विश्राणनं लं

रणं स्पर्शनं प्रतिपादनम्' इत्यमरः । विपुलं विस्तीर्णतश्च'

वितरणक्रियाकर्मणः शर्मणो विशेषणम् । शर्म सुखम् । वि
-
पुलं शर्मेत्यनेन सांसारिकस्य सर्वस्यापि सुखस्य मिश्रतया

नश्वरतया च संकुचितत्वात् भगवदुपासनेष्ववघातखेदवदा-

नुषङ्गिकत्वाच्च प्रेक्षावद्भिरप्रार्थनीयत्वम्, 'तस्मिन् प्रसन्ने

किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते', तस्यान्त-

रायो मैत्रेय ब्रह्मेन्द्रत्वादिकं फलम्' इत्यादिवचनैः : अतो

विपुलस्य निरतिशयस्यापवर्गाख्यस्यैव परमसुखस्य प्रार्थ-

नीयत्वमिति व्यज्यते । घर्मामांशुशोभम्, यस्य शोभा भक्तवि-

षये प्रसन्नावस्था, धर्मोघर्मांशुरादित्य इ समस्तार्थप्रकाशकत्वात्

अतिदुःसहत्वाभावाच्च । दुष्टविषयायास्तु घोरावस्थाया दु:-

सहत्वात् । 'द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।

एका घोरा शिवा चान्या ते वै च शतधा पुनः' इति,
 
१४