This page has not been fully proofread.

विष्णुपादादि-
प्रियश्चतुर्वेदी मक्तः श्वपचोऽपि यः । तस्मै यस्मै ततो ग्राह्यः
सच पूज्यो यथा ह्यहम्' इति स्मृतिवचनैः ॥ इत्यशेष-
मतिमङ्गलम् ॥
 
१४२
 
इत्थं पादादिकेशस्य भगवत्पादनिर्मितेः ।
र्भक्तिमन्दाकिनीं व्याख्यां चक्रे पूर्णसरस्वती ॥
मृदाेष्टिजङ्गं विकटकटितटं निम्ननाभिस्थपद्मं
सत्कुक्षिव्यूढवक्षः पृथुलभुजमुरुस्कन्धमुद्दामकण्ठम् ।
बिम्बोष्ठं सुष्टुगण्डं सितरदमरुणापाङ्गमुत्तुङ्गघोणं
शोणाक्षं सुश्रु चोत्थालिकलुठदलकं पातु विष्णोर्वपुर्वः ॥
 
भक्तिर्विष्णुपदाम्बुजप्रणयिनी वाणी सुधावर्षिणी
 
निर्धूतप्रतिहस्तिमुक्तिविरतौ यस्य प्रतीक्ष्यं मतम् ।
व्याख्यानं वटमूलनस्य महसस्तस्यापि विस्मापनं
तं वन्दे यतिसिंहमागमफलक्षेमंकरं शंकरम् ॥
 
इति श्रीपूर्णसरस्वत्याः कृतिः श्रीमत्पादादिकेशव्याख्या
भक्तिमन्दाकिनी नाम संपूर्णा ॥