This page has been fully proofread once and needs a second look.

विष्णुपादादि-
प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि यः । तस्मै यस्मै ततो ग्राह्यः

च पूज्यो यथा ह्यहम्' इति स्मृतिवचनैः ॥ इत्यशेष-

मतिमङ्गलम् ॥
 
१४२
 

 
इत्थं पादादिकेशस्य भगवत्पादनिर्मितेः ।
र्

भक्तिमन्दाकिनीं व्याख्यां चक्रे पूर्णसरस्वती ॥

 
मृदाेष्टिद्वङ्घ्रिश्लिष्टजङ्गं विकटकटितटं निम्ननाभिस्थपद्मं

सत्कुक्षिव्यूढवक्षः पृथुलभुजमुरुस्कन्धमुद्दामकण्ठम् ।

बिम्बोष्ठं सुष्टुगण्डं सितरदमरुणापाङ्गमुत्तुङ्गघोणं

शोणाक्षं सुश्रु चोत्थालिकलुठदलकं पातु विष्णोर्वपुर्वः ॥
 

 
भक्तिर्विष्णुपदाम्बुजप्रणयिनी वाणी सुधावर्षिणी
 

निर्धूतप्रतिहस्तिमुक्तिविरतौ यस्य प्रतीक्ष्यं मतम् ।

व्याख्यानं वटमूलनस्य महसस्तस्यापि विस्मापनं

तं वन्दे यतिसिंहमागमफलक्षेमंकरं शंकरम् ॥
 

 
इति श्रीपूर्णसरस्वत्याः कृतिः श्रीमत्पादादिकेशव्याख्या

भक्तिमन्दाकिनी नाम संपूर्णा ॥