This page has not been fully proofread.

विष्णुपादादि-
प्रकाशिता । पञ्चतां पञ्चभूत समष्टिरूपत्वाच्छरीरस्य तत्परिग्रहस्य
च कर्मफलभोगाद्यर्थत्वात् भोगेन प्रारब्धे कर्मणि क्षीणे
तच्छरीरं पुनः प्रकृतिभूतभूतपञ्चके लीयते इति पञ्चता
मृतिः । 'वियति वियन्मरुति मरुद्वह्नौ वह्निर्जलं जले भुवि
भूः । लीयन्ते स्वप्रकृतावहमपि मय्येव' इत्याद्यभियुक्तोक्तेः ।
तां पञ्चताम् एत्य इति ' लशुनं गृञ्जनं चैव मुक्त्वा चान्द्रायणं
चरेत्' इत्यत्र यथा प्रमादात् भुक्तं चेत् तदानीमियन्नि-
ष्कृतिरित्यनुवादोऽर्थः, न पुनरवश्यं कृत्वा पश्चाच्चान्द्रायणं
चरेदिति 'स्नात्वा भुञ्जीत' इत्यादिवद्विधिः । अतश्च मार्क-
ण्डेयादिवत् परमेश्वरोपासकानामाप्रलयमवस्थितेः 'प्रभुरहम-
न्यनृणां न वैष्णवानांम्' इति वचनात् न प्राकृतवत् पार-
तन्त्र्येण मृतिः । अपि तु संसारवैराग्यात् परानुग्रहादिना वा
'कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्' इत्युक्तत्वात्
शरभङ्गदधीचादिवत् स्वेच्छोत्क्रमणादिभिः शरीरं त्यजन्ति
चेत्यर्थः । भानोः सूर्यस्य बिम्बान्तर्गोचर मण्डलान्तर्वर्ति ।
परमानन्दं सर्वस्मादुत्कृष्टं सुखम् इतः परस्य सुखस्याभावात्।
मानुषमानन्दमुपक्रम्य तारतम्येनानन्तराण्यनुक्रम्य ब्रह्मानन्दे
तारतम्याश्रयत्वस्यौपाधिकत्वे घटाकाशत्वस्येवातात्त्विकत्वं स्या-
त् आत्मस्वरूपं भानोर्बिम्बान्तर्गोचरं परमानन्दं प्रविशति
उपाधिविधूननेन तदेव भवतीत्यर्थः । 'स यश्चायं पुरुषे ।
 
9
 
१४०
 
6