This page has been fully proofread once and needs a second look.

विष्णुपादादि-
प्रकाशिता । पञ्चतां पञ्चभूत समष्टिरूपत्वाच्छरीरस्य तत्परिग्रहस्य

च कर्मफलभोगाद्यर्थत्वात् भोगेन प्रारब्धे कर्मणि क्षीणे

तच्छरीरं पुनः प्रकृतिभूतभूतपञ्चके लीयते इति पञ्चता

मृतिः । 'वियति वियन्मरुति मरुद्वह्नौ वह्निर्जलं जले भुवि

भूः । लीयन्ते स्वप्रकृतावहमपि मय्येव' इत्याद्यभियुक्तोक्तेः ।

तां पञ्चताम् एत्य इति ' लशुनं गृञ्जनं चैव मुभुक्त्वा चान्द्रायणं

चरेत्' इत्यत्र यथा प्रमादात् भुक्तं चेत् तदानीमियन्नि-

ष्कृतिरित्यनुवादोऽर्थः, न पुनरवश्यं कृत्वा पश्चाच्चान्द्रायणं

चरेदिति 'स्नात्वा भुञ्जीत' इत्यादिवद्विधिः । अतश्च मार्क-

ण्डेयादिवत् परमेश्वरोपासकानामाप्रलयमवस्थितेः 'प्रभुरहम-

न्यनृणां न वैष्णवानांम्' इति वचनात् न प्राकृतवत् पार-

तन्त्र्येण मृतिः । अपि तु संसारवैराग्यात् परानुग्रहादिना वा

'कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम्' इत्युक्तत्वात्

शरभङ्गदधीचादिवत् स्वेच्छोत्क्रमणादिभिः शरीरं त्यजन्ति

चेत्यर्थः । भानोः सूर्यस्य बिम्बान्तर्गोचरं मण्डलान्तर्वर्ति ।

परमानन्दं सर्वस्मादुत्कृष्टं सुखम् इतः परस्य सुखस्याभावात्।

मानुषमानन्दमुपक्रम्य तारतम्येनानन्तराण्यनुक्रम्य ब्रह्मानन्दे

तारतम्याश्रयत्वस्यौपाधिकत्वे घटाकाशत्वस्येवातात्त्विकत्वं स्या-

त् आत्मस्वरूपं भानोर्बिम्बान्तर्गोचरं परमानन्दं प्रविशति

उपाधिविधूननेन तदेव भवतीत्यर्थः । 'स यश्चायं पुरुषे ।
 
9
 
१४०
 
6