This page has been fully proofread once and needs a second look.


का चक्रे प्रतिष्ठितम् इत्यादिवचनैः, दाशतेयसंहितायाम-
संश्वामीये 'त्रिनाभिचक्रमजरमनर्धम्' इति 'सप्त युञ्जन्ति '
भूतादिभिश्च तन्मूलभूतादिभिरित्यर्थः । ध्वान्तस्य तमसः ।
व शंधकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः ।
तिरिक्तन्तम्, एकप्रकारमन्तं नाशं बहिरन्तः सर्वदेशेषु सर्वका-
ज्ञानमुच्येत प्रतिकूलमित्यर्थः । अपि च न केवलं कालतत्त्वात्म-
तस्य विहुः, अन्यच्च वक्ष्यमाणमाहुरित्यर्थः । परम् उत्कृष्टं सर्व-
भाय)सर्वेषां तेजसां धाम आस्पदम् । 'चक्राभिधानो हरिः '
इत्यादिभिश्चक्रराजस्य विश्वात्मकत्वप्रसिद्धेः, ' येन सूर्यस्त-
पति तेजसेद्ध: ' ' यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इत्यादिभिश्च
श्रुतिवचनैः । अथवा सर्वधाम्नामिति निर्धारणे षष्ठी । सम-
स्तानां तेजसां मध्ये परममुत्कृष्टं तेज इत्यर्थः, 'तमेव भान्त-
मनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुतेः ।
चक्रम्, रथाङ्गाकारेण विवृत्ततया चक्राख्यम्, 'चक्राभिधानो
हरिः' इत्याचार्योक्तेः । चक्रपाणेः, चक्रमुक्तरूपं पाणौ यस्येति ।
प्रहरणान्तरेभ्यः अस्य सदा धार्यमाणत्वं द्योत्यते । 'प्रहरणा-
र्थेभ्य: परे निष्ठासप्तम्यौ भवतः' इति सप्तम्यन्तस्य परनि-
पातः । दित्यां जाता: दितिजाः, असुराः । 'सप्तम्यां जने-
र्ड:' इति ड: । दितिजानां तनोः शरीरात् गलन्त्या खण्डि
 

 
;
 
१३