This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 

का चक्रे प्रतिष्ठितम् इत्यादिवचनैः, दाशतेय संहितायाम-

संवोश्वामीये 'त्रिनाभिचक्रमजरमनर्धम्' इति 'सप्त युञ्जन्ति '
दि

भूता
दिभिश्च तन्मूलभूतादिभिरित्यर्थः । ध्वान्तस्य तमसः ।

व शंधकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः ।

तिरिक्तकृन्तम्, एकप्रकारमन्तं नाशं बहिरन्तः सर्वदेशेषु सर्वका-

ज्ञानमुच्येत प्रतिकूलमित्यर्थः । अपि च न केवलं कालतत्त्वात्म-

तस्य विहुः, अन्यच्च वक्ष्यमाणमाहुरित्यर्थः । परम् उत्कृष्टं सर्व-

भाय)सर्वेषां तेजसां धाम आस्पदम् । 'चक्राभिधानो हरिः '

इत्यादिभिश्चक्रराजस्य विश्वात्मकत्वप्रसिद्धेः, ' येन सूर्यस्त-

पति तेजसेद्ध: ' ' यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्' इत्यादिभिश्च

श्रुतिवचनैः । अथवा सर्वधाम्नामिति निर्धारणे षष्ठी । सम-

स्तानां तेजसां मध्ये परममुत्कृष्टं तेज इत्यर्थः, 'तमेव भान्त-

मनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुतेः ।

चक्रम्, रथाङ्गाकारेण विवृत्ततया चक्राख्यम्, 'चक्राभिधानो

हरिः' इत्याचार्योक्तेः । चक्रपाणेः, चक्रमुक्तरूपं पाणौ यस्येति ।

प्रहरणान्तरेभ्यः अस्य सदा धार्यमाणत्वं द्योत्यते । 'प्रहरणा-

र्थे
भ्य: परे निष्ठासप्तम्यौ भवतः' इति सप्तम्यन्तस्य परनि-

पातः । दिल्त्यां जाता: दितिजाः, असुराः । 'सप्तम्यां जने-

र्ड
: ' इति ड: । दितिजानां तनोः शरीरात् गलन्त्या खण्डि
 

 

 

 
;
 

 
१३