This page has been fully proofread once and needs a second look.

विष्णुपादादि-
रकमीमांसाभाष्यकारा : शंकरभगवत्पादाः स्वयं परमतपस्वि-

तया परमेश्वरावतारभेदतया च स्तोत्रस्यास्य जप्तॄणां परमं

प्रयोजनमुपस्थापयंति 'ऋषीणां पुनराद्यानां वाचमर्थोऽनुधा-

वति' 'न हीश्वरव्याहृतयः कथंचित् पुष्णन्ति लोके विप

रीतमर्थम्' इत्याद्यभियुक्तोक्तेः । 'एतदाख्यानमायुष्यं पठन्

रामायणं नरः । सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते
'
इति, 'भजत्यविकलं यद्वा वाजिमेधफलं लभेत्' इत्यादि-

प्राचेतसपराशरादिवचनात् -
 
१३८
 
-
 

 
मोदात्पादादिकेशस्तुतिमितिरचितां कीर्तयित्वा त्रिधाम्नः

पादाब्जद्वन्द्व सेवा समयनतमतिर्मस्तकेनानमेद्यः ।

उन्मुच्यैवात्मनैनोनिचयकवचकं पञ्चतामेत्य भानो-

र्
बिम्बान्तर्गोचरं स प्रविशति परमानन्दमात्मस्वरूपम् ॥
 

 
मोदात् भगवद्विग्रहानुभवजातात् प्रहर्षात् 'नेत्रे जलं गा-

त्ररुहेषु कम्प: ' इत्यादि विकारजनकाद्धेतोः न तु ख्यात्यादि-

लोभादित्यर्थः । इतिरचिताम् अनेनानन्तरोक्तेन कम्बुराजादि-

परिवारावर्जनपुरःसरेण प्रकारेण ग्रथिताम्, मोदादितिरचि -

तामित्यनेन उद्वेलस्य भक्तिसुधासिन्धोस्तरङ्गरूपेणाविर्भूतत्वं

द्योत्यते । पादादिकेशस्तुतिं पादादिकेशान्तविग्रहसमग्रवर्णन-

परत्वात् पादादिकेशान्तसंज्ञितं स्तोत्रम्, अन्तशब्द: प्रसि