This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
इति सगर्भत्वानुसंधेयम्, ध्यानेन च जपेन च विशिष्टत्वात् ।

अस्मिंश्च पक्षे अद्य परिसमापितस्य प्रबन्धस्य अधिकारिवि-

षयसंबन्धा अपि प्रदर्श्यन्ते । तथा हि - वपुरिदमिति भगव
-
द्विग्रहो विषय इत्युक्तम् । सन्ततान्तः प्रमोद इति नित्यमुसुखा-

पेक्षी मुमुक्षुर्मुख्याधिकारीति सूचितम् । प्रतिपाद्य प्रतिपादक-

भाव: संबन्ध: प्रसिद्धः । एवं परमप्रयोजनमनन्तरश्लोके

प्रतिपादयिष्यते । तत्पादाम्भोरुहाभ्यां तस्य भईधर्तुश्चरणकम.
-
लाभ्याम् । सततं नमस्कुर्महे नित्यं नमस्कुर्मः ।.
आत्मने-
पदप्रयोगात् कर्त्रभिप्रायक्रियाफलत्वं सूचयति । 'श्स्वरित

ञितः कर्त्रभिप्राये क्रियाफले' इति स्मरणात् । 'नम
:
स्वस्ति' इत्यादिना चतुर्थी । निर्मलाभ्यां निरस्तसकल.
-
पापाभ्याम् इति नमस्कारे महाफलत्वं सूचयति निष्कल-

ङ्
कमित्यादिवत् । अपि-शब्देन सकलोपासकस्य पादाम्भोरु-

हाभ्यामपि नमस्कुर्महे, किंपुनर्निष्कलोपासकस्येति द्योत्यते ।

अथवा अपि- शब्दोऽनुक्तसमुच्चयार्थ: ; तद्धृभृत्यादिपादाम्भोरु-

हाभ्यामपि नमस्कुर्मह इति भक्त्या अतिशयः प्रकाश्यते ।

अत्र पर्यायोक्तं रूपकमतिशयोक्तिश्वाचालंकारः ॥ ५१ ॥
 
१३७
 

 
इत्थं प्रारब्धं प्रबन्धं भगवत्प्रसादादविघ्नेन परिसमाप्य

इदानीं परमदयामृतरससरस्वन्तः श्रीमन्तो भगवन्तः शारी-