This page has not been fully proofread.

विष्णुपादादि-
वाचिकमाह - जिह्वा कृशानौ रसनाधिदेवता रूपेऽग्झौ 'वह्नीन्द्रौ-
चेन्द्रमित्रका' इति भागवतोक्तेः । हरिचरितहविः भगवतो
वेदाहरणादिरूपवृत्तान्तात्मकं हव्यं पवित्रत्वात् दिव्यत्वेन स्वा-
द्यत्वात् उपरि महाफलप्रसोतृत्वाच्च हविष्टारोपः । 'यच्छृण्वतां
रसज्ञानां स्वादु स्वादु पदे पदे' इत्यादिवचनैः । स्तोत्रमन्त्रा-
नुपाठै: वैदिक पुरुषसूक्तादिपौराणिकब्रह्मपरादिस्तुतिमन्त्रजपपु
रःसर: जुह्वत् समर्पयन् सन्निति तत्कालविशेषणम् । उभा-
भ्यां च नान्तरीयकतया हिंसादिवर्जन भगवत्प्रणा मादिरूपं शा-
रीरं तपः सिद्धमेव । जुहृदित्यनेन 'शब्दादीन् विषयानस्य
इन्द्रियामिषु जुह्वति' इति, 'श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानय
ज्ञ: परंतप ' इति, 'ब्रह्मार्पणं ब्रह्महविर्ब्रह्मानौ ब्रह्मणा हुतम् '
इति भगवद्वचन मनुसंधत्ते । अत्र वैष्णवं वपुरिति शुद्धधार-
णास्पदत्वम् इदमिति वर्णितमधुरप्रकार विशिष्टत्वम्, अनघ
मिति पापक्षयरूपं धारणाफलम्, स्वचित्त इति 'योगश्चित्त-
वृत्तिनिरोध: ' इति वचनात् योगस्य च यमाद्यनुष्ठानरूपत्वा-
तू यमादिप्रत्याहारान्तपञ्चाङ्गीवशीकृतत्वं चित्तस्य, धत्त इति
' धारणान्नित्यम्' इति प्रत्ययान्तरतिरस्काराद्धयानम्, निरस्ता-
खिलेति मैत्र्यादिभावनाफलम् सन्ततान्तः प्रमोद इति पर
मेश्वरै क्यानुसंधानजनितपरमानन्दानुभवरूपः समाधिश्व प्र
काश्यते । वपुर्धत्त इति सबीजसमाधित्वम् जुह्वद्धत्ते
 
9
 
१३६