This page has been fully proofread once and needs a second look.

विष्णुपादादि-
वाचिकमाह - जिह्वा कृशानौ रसनाधिदेवता रूपेऽग्झौनौ 'वह्नीन्द्रौ-

चेन्द्रमित्रका' इति भागवतोक्तेः । हरिचरितहविः भगवतो

वेदाहरणादिरूपवृत्तान्तात्मकं हव्यं पवित्रत्वात् दिव्यत्वेन स्वा-

द्यत्वात् उपरि महाफलप्रसोतृत्वाच्च हविष्टाट्वारोपः । 'यच्छृण्वतां

रसज्ञानां स्वादु स्वादु पदे पदे' इत्यादिवचनैः । स्तोत्रमन्त्रा-

नुपाठै: वैदिक पुरुषसूक्तादिपौराणिकब्रह्मपरादिस्तुतिमन्त्रजपपु
-
रःसर: जुह्वत् समर्पयन् सन्निति तत्कालविशेषणम् । उभा-

भ्यां च नान्तरीयकतया हिंसादिवर्जन भगवत्प्रणा मादिरूपं शा-

रीरं तपः सिद्धमेव । जुहृह्वदित्यनेन 'शब्दादीन् विषयानस्य

इन्द्रियामिग्निषु जुह्वति' इति, 'श्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानय
-
ज्ञ: परंतप ' इति, 'ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् '

इति भगवद्वचन मनुसंधत्ते । अत्र वैष्णवं वपुरिति शुद्धधार-

णास्पदत्वम् , इदमिति वर्णितमधुरप्रकार विशिष्टत्वम्, अनघ
-
मिति पापक्षयरूपं धारणाफलम्, स्वचित्त इति 'योगश्चित्त-

वृत्तिनिरोध: ' इति वचनात् योगस्य च यमाद्यनुष्ठानरूपत्वा-
तू

त्
यमादिप्रत्याहारान्तपञ्चाङ्गीवशीकृतत्वं चित्तस्य, धत्त इति

' धारणान्नित्यम्' इति प्रत्ययान्तरतिरस्काराद्ध्यानम्, निरस्ता-

खिलेति मैत्र्यादिभावनाफलम् , सन्ततान्तः प्रमोद इति पर
-
मेश्वरै क्यानुसंधानजनितपरमानन्दानुभवरूपः समाधिश् प्र
-
काश्यते । वपुर्धत्त इति सबीजसमाधित्वम् जुह्वद्धत्ते
 
9
 
१३६