This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते

धत्ते नित्यं निरस्ताखिलकलिकलुषे संततान्त:प्रमोदः ।

जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्र मन्त्रानुपाठै-

स्तत्पादाम्भोरुहाभ्यांसततमपिनमस्कुर्महेनिर्मलाभ्याम् ॥
 
१३५
 

 
आपादादिति जात्येकवचनम् 'तत्कुर्यात् गरुडसमं नरस्य

चक्षुः' इत्यादिवत् । पादादारभ्य । आङभिविषीधौ । आशी-

र्षात् शीर्षात् शिरस: ' उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः ।

शीर्षमवधि कृत्वेति साकल्यमुक्तम् । आङत्र मर्यादायाम् ।

वपुः मूर्तिः । इदं समनन्तरवर्णितम् । अनघम् अघस्य पा
-
पस्य विरुद्धम्, तदन्यतद्विरुद्धतदभावद्योतकत्वान्नञः, अधर्म

इत्यादिवत् । वैष्णवं विष्णो: संबन्धि । 'तस्येदम्' इत्यण् ।

स्वचित्ते स्वीयत्वेन निश्चिते मनसि । निरस्ताखिलकलिकलुषे दूर-

तः क्षिप्तं कलिकालजनितं कलुषं कालुष्यं यस्मात् तत् । काल-

विशेषणं चैतत् । 'यथाग्निरुद्धतशिख: ' इतिवत् । 'आयास-

स्मरणे कोऽन्यः स्मृतौ यच्छति शोभनम् । पापक्षयश्च भवति

स्मरतां तमहर्निशम्' इति पुराणवचनात् । सन्ततान्त:-

प्रमोदः अविच्छिन्नहृदयाह्लादः सन्नित्यर्थः । अनेन द्रव-

च्चित्तप्रेमाश्रुपुलकोत्सवसंपच्त्त्या बहिः स्पष्टक्षोभः इति
 

सूचितम् । धत्ते धारयतीति अनेन मानससंताप उक्तः ।